Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 73
________________ ५६ कादम्बरो कलभ-करमृदित- तमालकिसलयामोदिनी मधुमदोपरक्त- केरली- कपोलच्छविना सञ्चरद्वनदेवताचरणालक्तक- रस- रञ्जितेनेव पल्लवचयेन संछादिता, शुककुल- दलितदाडिमीफल - द्रवाद्रकृत-तलैरतिचपल-कपि-कम्पित- कक्कोल - च्युतपल्लव-फलशबलैः अनवरत - निपतितकुसुमरेणुपांसुलैः पथिक-जन-रचित लवङ्गपल्लव संस्तरः अतिकठोर नारिकेल- केतकी करीरबकुल-परिगतप्रान्तैः ताम्बूलीलतावनद्ध-पूग-खण्डमण्डितैर्वनलक्ष्मी - वासभवनैरिव विराजिता लतामण्डपैः, उन्मद-मातङ्ग- कपोलस्थल-गलित-सलिल-सिक्तेनेव । नवरतमेलालतावनेन मद मरिचपल्लवानि ( कोलकिसलयानि ) यस्यां सा, “मरी (रि) चं कोलकं कृष्णभूषणं धर्मपत्तनम्" इत्यमरः । करिकलभेत्यादिः = करिणां ( हस्तिनाम् ) ये कलभा : ( शावका: ), “कलमः करिशावक : ” इत्यमर: ) तेषां करा: ( शुण्डादण्डाः ), तैर्मृदितानि ( संचूर्णितानि यानि तमालकिसलयानि ( तापिच्छपल्लवानि ) तैः आमोदिनी ( सौरभयुक्ता ) । मधुमदोपर क्तेत्यादिः = मधु ( मद्यं, "मधु मद्यं पुष्परस " इत्यमर: ) तस्य यो मदः ( मत्तता ) तेनोपरक्त: अरुणः ) यः केरलीकपोल: ( केरलदेशोद्भवनारीगण्डफलक : ) तस्येव छवि: ( कान्तिः ) यस्याः सा । संचरदित्यादिः = संचरन्त्यः ( सञ्चरणं कुर्वत्यः ) या वनदेवता: ( काननदेव्यः ) तासां चरणेषु ( पादेषु ) योऽलक्तकरस: ( लाक्षाद्रवः), तेन रञ्जितेन इव ( रक्तीकृतेन इव पल्लवचयेन ( किसलयसमूहेन ) संछादिता 0= आच्छादिता ) । “कपोल कोमलच्छविना" इत्यत्रोपमा, "रञ्जितेनेवे" त्यत्रोत्प्रेक्षा चेत्येतयोरङ्गाङ्गिभावेन सङ्कराऽलङ्कारः । शुककुलेत्यादिः ० शुककुलेन ( कोरसमूहेन ) दलितानि (विदारितानि ) यानि दाडिमोफलानि ( कुवलयसस्यानि ) तेषां द्रवः ( रस: ), तेन आर्द्रीकृतं ( क्लिन्नीकृतम् ) तलम् (अधोभागः ) येषां तै:, "लतामण्डपैः" इत्यस्य विशेषणम् । एवमन्यत्राऽपि । अतिचपलेत्यादिः ० = अतिचपलाः ( अतिशयचञ्चलाः ) ये कपयः ( वानराः) तैः कम्पिता: ( धूता: ) ये कक्कोला : ( कोशफलवृक्षाः, "अथ कोलकम् । कक्कोलकं कोशफलम्" इत्यमर: ), तेभ्यः च्युतानि ( पतितानि) । यानि पल्लवफलानि (किसलयसस्यानि ) तैः शबला : ( कर्बुरा : ), तैः । अनवरतेत्यादि ० = अनवरतं ( निरन्तरम् ) निपतितानि ( स्रस्तानि ) यानि कुसुमानि ( पुष्पाणि ) तेषां रेणुभि: ( परागैः ) पांसुलै: ( सरजस्कै: ) । पथिकजनेत्यादिः = पन्थानं गच्छन्तीति पथिकाः, "पथः ष्कन्" इति ष्कन्प्रत्ययः । “३ःध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।" इत्यमरः । पथिकजनै: ( पान्यजनैः ) रचिताः ( निर्मिताः ) लवङ्गपल्लवानां ( देवकुसुम किसलयानाम् ) संस्तराः ( आसनानि ) येषु तैः । अति कठोरेत्यादिः = अतिकठोरा ( अतिशयकठिना: ) नालिकेरा ( नारिकेला : ), केतक्य: ( क्रकचच्छदा. ) करीरा: ( ग्रन्थिला, "करीरे तु क्रकरग्रन्थिलावुभौ ।" इत्यमरः । ) वकुला : ( केसरा: ) तैः परिगतः ( व्याप्तः ) प्रान्तः ( पर्यन्तदेशः ) येषां तैः । ताम्बूलीलतेत्यादिः = ताम्बूलीलताभि: ( नागवल्ली व्रततिभिः ) अवनद्धा: ( बद्धा:) ये पूगखण्डा : ( क्रमुकसमूहाः ) तैः मण्डितै: ( अलङ्कृतैः ), "तालव्यो मूर्धन्योऽब्जादिकदम्बे शण्डशब्दोऽयम् । मूर्धन्य एव वृषभे पूर्वाचार्ये विनिर्दिष्टः ।" इत्युष्मविवेकः । तादृशैः वनलक्ष्मीवास भवनैः = वनलक्ष्म्या : ( अरण्यश्रियः ) वासभवनै: ( निवासगृहैः ) इव, लतामण्डपैः = वल्लीजनाश्रयः । विराजिता = शोभिता । अत्रोत्प्रेक्षाऽलङ्कारः । पल्लवोंको चबाते रहते हैं । जो हाथी के बच्चोंके सूडोंसे चूर्णित तापिच्छ के पल्ल्वासे सुगन्धसम्पन्न है । जो केरल देशकी स्त्रियोंके मदिरामदसे लाल कपोलकी समान कान्तिसे युक्त, चलती हुई वनदेवताके चरणोंके अलक्तकरससे रंग हुएसे पल्लवोंसे आच्छादित है । शुकसमूहसे विदारित अनार के फलोंके रससे आर्द्र किये गये अधोभागवाले अतिशय चञ्चल बन्दरोंसे कम्पित कक्कोलके पेड़ोंसे गिरे हुए पल्लवों और फलोंसे चितकबरे, लगातार गिरे हुए पुष्पपरागोसे चूर्णयुक्त पथिकोंसे रचित लवङ्ग पल्लवांके आसनोंसे युक्त, अत्यन्त कठोर नारियल, केतकी, करीर और मौलसिरीसे व्याप्त पर्यन्त देशवाले, ताम्बूललताओंसे सम्बद्ध सुपारीके पेड़ोंसे अलङ्कृत वनलक्ष्मीकं निवास भवनोंके

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172