Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 71
________________ ५४ कादम्बरी फलल्वींषि खण्डितानि दाडिम-बीजानि, नलिनीदल-हरिन्ति द्राक्षाफल-स्वादूनि च दलितानि स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहना, सर्वमेव देवीभिः स्वयं करतलोपनीयमानममतायते' इति । ___एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्-आस्तां तावत् सर्वम्, अपनयतु नः कुतूहलम्, आवेदयतु भवानादितः प्रभृति कात्स्येनात्मनो जन्म कस्मिन् देशे? भवान् कथं जातः ? केन वा नाम कृतम् ? का ते माता? कस्ते पिता ? कथं वेदानामागमः ? कथं शास्त्राणां परिचयः ? कूतः कलाः आसादिताः ? किंतकं जन्मान्तरानुस्मरणम् ? उत वरप्रदानम्, अथवा विहगवेष-धारी कश्चिच्छन्नं निवससि ? क पूर्वमुषितम् ? कियद्वा वयः ? "नवरस्तु कषायोऽस्त्री' त्यमरः । एतादृशो जम्बूफलरसः = जम्बूफलद्रवः, प्रकामं = पर्याप्तं यथा तथा, अभीतः = सम्यकपानविषयीकृत: । अत्रोपमाऽलङ्कारः । एवमेव - हरिनखरेत्यादि: हरेः (सिंहस्य) मखरैः ( नख: ) भिन्नाः ( विदारिता: ) मत्तमातङ्गानां ( मदयुक्तहस्तिनाम् ) ये कुम्मा: ( मस्तकमांसपिण्डाः ) तेभ्यो मुक्तानि ( अपगतानि ) यानि रक्ताऽऽर्द्राणि ( रुधिर क्लिन्नानि ) मुक्ताफलानि ( मौक्तिकानि ), तेषाम् इव त्विट् (कान्तिः) येषां तानि, तादृशानि दाडिमबीजानि करकफलबीजानि, सण्डितानि = खण्डीकृतानि, चञ्चुपुटेनेति शेषः । उपमाऽलङ्कारः। इत्थमेव नलिनीदलहरिन्ति = नलिनी ( कमलिनी ) तस्या दलानि ( पत्त्राणि ) तानि इव हरिन्ति ( हरितवर्णानि ), द्राक्षाफलस्वादूनि = द्राक्षा ( मृद्वोका ) तस्याः फलानि ( सस्यानि ) इव स्वादू नि ( स्वादयुक्तानि ), "मृटोका गोस्तनो द्राक्षा' इत्यमरः । प्राचीनाऽऽमलकीफलानि = पानीयामलकफलानि, स्वेच्छया = निजाऽभिलाषेण, चूर्णितानि = चूर्णीकृतानि, चञ्चपुटेनेति शेषः । उपमाऽलङ्कारः । वा= अथवा, बहुना = अधिकेन, प्रलपितेन = अनर्थकवचनेन, कि =कि प्रयोजनम् । सर्वम् एव = सकलम् एव, अशनजातमिति शेषः । देवीभिः = महिषोभिः । स्वयम् = आत्मनैव, करतलोपनीयमानं = करतल: ( हस्ततल: ) उपनीयमानं ( समीपे प्राप्यमाणं सत् ), अमृतायते-अमृतवत् आचरति, “कर्तुः क्यङ् सलोपश्च" इति क्यङ् प्रत्ययः । उपमाऽलङ्कारः । इति-वाक्यसमाप्तौ, "इति हेतुप्रकरणप्रकाशाऽऽदिसमाप्तिषु ।" इत्यमरः । एवंवादिनः = पूर्वोक्तं वाक्यं कथयतः वैशम्पायनस्येति भावः । वचनं = वचः, आक्षिप्य = आक्षेप कृत्वा, वाक्यसमाप्तो बाधां विधायेति भावः । नरपतिः= राजा शूद्रकः, अब्रवीत् = अकथयत् । इदं % अर्वोक्तम् एतत्, सर्व = सकलम्, आस्तां= तिष्ठतु, तावदिति वाक्याऽलङ्कारे । भवान्, नः = अस्माकं, कुतहलं = कौतुकम्, अपनयतु = निवारयतु । भवान्, आदित: प्रभृति = प्रथमत आरभ्य । कात्स्येन = साकल्येन, आत्मनः = स्वस्य, जन्म = जननं, कस्मिन् देशे = जनपदे जातमिति शेषः । भवान्, कथं = केन प्रकारेण, जातः = उत्पन्नः, केन वा = पुरुषेण, नाम = अभिधानं, तवेति शेषः । कृतं = विहितम् । ते=तव, माता=जननी, का, ते=तव, पिता= जनकः, क: ? वेदानां = श्रुतीनाम्, आगमः= उपलब्धिः, कथं = केन प्रकारेण, जातः । शास्त्राणां = व्याकरणन्यायादीनां, परिचयः = संस्तवः, कथं = केन प्रकारेण जातः । कला%= नृत्यगीतादिका कला, कुतः = कस्मात्, आसादिता:=प्राप्ताः, जन्माऽन्तराऽऽनुस्मरणं = जन्माऽन्तरस्य (पूर्वजन्मनः ) अनुस्मरणम् ( अनुस्मृतिः ) किहेतुकं = हाथोके शिरके मांसपिण्डसे निकले हुए रुधिरसे आर्द्र मोतियोंकी-सी कान्तिवाले अनारके दानोंको खण्ड-खण्ड कर खा लिया। कमलके पत्तोंके समान हरे अगूरके समान स्वादु जलआंवलोंके फलोंको अपनी इच्छा से चूर्ण-चूर्ण कर खा डाला। अधिक कहनेसे क्या ? रानियोंसे अपने करतलोंसे लाया गया सब कुछ अमृतके समान प्रतीत हो रहा है।" ऐसा कहते हुए वैशम्पायनकी बातमें आक्षेप कर राजाने कहा-“यह सब रहने दें, आप हमारी उत्कण्ठा हटा दें। शुरूसे पूर्णरूपसे किस देशमें अपना जन्म हुआ ? आप कैसे उत्पन्न हुए ? किसने आपका नाम रक्खा ? कौन आपकी माता और आपके पिता है ? वेदोंकी प्राप्ति कैसे हुई ? शास्त्रोंका परिचय कैसे हुआ ? किससे

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172