________________
५४
कादम्बरी
फलल्वींषि खण्डितानि दाडिम-बीजानि, नलिनीदल-हरिन्ति द्राक्षाफल-स्वादूनि च दलितानि स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहना, सर्वमेव देवीभिः स्वयं करतलोपनीयमानममतायते' इति ।
___एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्-आस्तां तावत् सर्वम्, अपनयतु नः कुतूहलम्, आवेदयतु भवानादितः प्रभृति कात्स्येनात्मनो जन्म कस्मिन् देशे? भवान् कथं जातः ? केन वा नाम कृतम् ? का ते माता? कस्ते पिता ? कथं वेदानामागमः ? कथं शास्त्राणां परिचयः ? कूतः कलाः आसादिताः ? किंतकं जन्मान्तरानुस्मरणम् ? उत वरप्रदानम्, अथवा विहगवेष-धारी कश्चिच्छन्नं निवससि ? क पूर्वमुषितम् ? कियद्वा वयः ?
"नवरस्तु कषायोऽस्त्री' त्यमरः । एतादृशो जम्बूफलरसः = जम्बूफलद्रवः, प्रकामं = पर्याप्तं यथा तथा, अभीतः = सम्यकपानविषयीकृत: । अत्रोपमाऽलङ्कारः । एवमेव - हरिनखरेत्यादि: हरेः (सिंहस्य) मखरैः ( नख: ) भिन्नाः ( विदारिता: ) मत्तमातङ्गानां ( मदयुक्तहस्तिनाम् ) ये कुम्मा: ( मस्तकमांसपिण्डाः ) तेभ्यो मुक्तानि ( अपगतानि ) यानि रक्ताऽऽर्द्राणि ( रुधिर क्लिन्नानि ) मुक्ताफलानि ( मौक्तिकानि ), तेषाम् इव त्विट् (कान्तिः) येषां तानि, तादृशानि दाडिमबीजानि करकफलबीजानि, सण्डितानि = खण्डीकृतानि, चञ्चुपुटेनेति शेषः । उपमाऽलङ्कारः। इत्थमेव नलिनीदलहरिन्ति = नलिनी ( कमलिनी ) तस्या दलानि ( पत्त्राणि ) तानि इव हरिन्ति ( हरितवर्णानि ), द्राक्षाफलस्वादूनि = द्राक्षा ( मृद्वोका ) तस्याः फलानि ( सस्यानि ) इव स्वादू नि ( स्वादयुक्तानि ), "मृटोका गोस्तनो द्राक्षा' इत्यमरः । प्राचीनाऽऽमलकीफलानि = पानीयामलकफलानि, स्वेच्छया = निजाऽभिलाषेण, चूर्णितानि = चूर्णीकृतानि, चञ्चपुटेनेति शेषः । उपमाऽलङ्कारः । वा= अथवा, बहुना = अधिकेन, प्रलपितेन = अनर्थकवचनेन, कि =कि प्रयोजनम् । सर्वम् एव = सकलम् एव, अशनजातमिति शेषः । देवीभिः = महिषोभिः । स्वयम् = आत्मनैव, करतलोपनीयमानं = करतल: ( हस्ततल: ) उपनीयमानं ( समीपे प्राप्यमाणं सत् ), अमृतायते-अमृतवत् आचरति, “कर्तुः क्यङ् सलोपश्च" इति क्यङ् प्रत्ययः । उपमाऽलङ्कारः । इति-वाक्यसमाप्तौ, "इति हेतुप्रकरणप्रकाशाऽऽदिसमाप्तिषु ।" इत्यमरः । एवंवादिनः = पूर्वोक्तं वाक्यं कथयतः वैशम्पायनस्येति भावः । वचनं = वचः, आक्षिप्य = आक्षेप कृत्वा, वाक्यसमाप्तो बाधां विधायेति भावः । नरपतिः= राजा शूद्रकः, अब्रवीत् = अकथयत् । इदं % अर्वोक्तम् एतत्, सर्व = सकलम्, आस्तां= तिष्ठतु, तावदिति वाक्याऽलङ्कारे । भवान्, नः = अस्माकं, कुतहलं = कौतुकम्, अपनयतु = निवारयतु । भवान्, आदित: प्रभृति = प्रथमत आरभ्य । कात्स्येन = साकल्येन, आत्मनः = स्वस्य, जन्म = जननं, कस्मिन् देशे = जनपदे जातमिति शेषः । भवान्, कथं = केन प्रकारेण, जातः = उत्पन्नः, केन वा = पुरुषेण, नाम = अभिधानं, तवेति शेषः । कृतं = विहितम् । ते=तव, माता=जननी, का, ते=तव, पिता= जनकः, क: ? वेदानां = श्रुतीनाम्, आगमः= उपलब्धिः, कथं = केन प्रकारेण, जातः । शास्त्राणां = व्याकरणन्यायादीनां, परिचयः = संस्तवः, कथं = केन प्रकारेण जातः । कला%= नृत्यगीतादिका कला, कुतः = कस्मात्, आसादिता:=प्राप्ताः, जन्माऽन्तराऽऽनुस्मरणं = जन्माऽन्तरस्य (पूर्वजन्मनः ) अनुस्मरणम् ( अनुस्मृतिः ) किहेतुकं =
हाथोके शिरके मांसपिण्डसे निकले हुए रुधिरसे आर्द्र मोतियोंकी-सी कान्तिवाले अनारके दानोंको खण्ड-खण्ड कर खा लिया। कमलके पत्तोंके समान हरे अगूरके समान स्वादु जलआंवलोंके फलोंको अपनी इच्छा से चूर्ण-चूर्ण कर खा डाला। अधिक कहनेसे क्या ? रानियोंसे अपने करतलोंसे लाया गया सब कुछ अमृतके समान प्रतीत हो रहा है।" ऐसा कहते हुए वैशम्पायनकी बातमें आक्षेप कर राजाने कहा-“यह सब रहने दें, आप हमारी उत्कण्ठा हटा दें। शुरूसे पूर्णरूपसे किस देशमें अपना जन्म हुआ ? आप कैसे उत्पन्न हुए ? किसने आपका नाम रक्खा ? कौन आपकी माता और आपके पिता है ? वेदोंकी प्राप्ति कैसे हुई ? शास्त्रोंका परिचय कैसे हुआ ? किससे