________________
कथामुखे-स० म० कञ्चुकी नि० वर्णनम् क्षितितल-निहितकरतलस्तु कञ्चकी राजानं व्यज्ञापयत्-'देव ! देव्यो विज्ञापयन्ति, देवादेशादेष वैशम्पायनः स्नातः कृताहारश्च देवपादमूलं प्रतीहा- नीत' इत्यभिधाय गते च तस्मिन् राजा वेशम्पायनमपृच्छत्–'कच्चित् अभिमतमास्वादितमभ्यन्तरे भवता किञ्चिदशनजातम् ?' इति ।
स प्रत्युवाच-'देव किंवा नास्वादितम् ?' आमत्त कोकिल-लोचनच्छविर्नीलपाटल: कषायमधुरः प्रकाममापीतो जम्बूफलरस: हरि-नखरभिन्न-मत्तमातङ्गकुम्भ-मुक्तरक्तामुक्ता
कनकवेत्रलताऽवलम्बिना = कनकनिर्मिता (सुवर्णरचिता ) या वेत्रलता ( वेतसलता ) ताम् अवलम्बते तच्छोलस्तेन । तद्ग्राहिणेतिभावः । किञ्चिदवनतपूर्वकायेन = स्तोकाऽवनम्र देहपूर्वमागेन, कायस्य पूर्व पूर्वकायः, “पूर्वाऽपराऽधरोत्तरमेकदेशिनकाधिकरणे" इति एकदेशिसमासः । किञ्चिदवनतः पूर्वकायो यस्य, तेन । सितकञ्चकाऽवच्छन्नवपुषा = सित: (शुक्ल: ) य: कञ्चकः ( कूसिक: ) तेन अवच्छन्नम् ( आच्छादितम् ) वपुः ( शरीरम् ) यस्य, तेन । जराधवलितमौलिना = जरसा ( विस्रसया ), धवलितः ( शुक्लीकृत: ) मौलि: ( शिरः ) यस्य तेन । गद्गदस्वरेण-गद्गदः ( अस्फुटः ) स्वरः ( शब्दः) यस्य तेन । मन्दमन्दसञ्चारिणा = मन्दप्रकारं मन्दमन्द "प्रकारे गुणवचनस्य" इति मन्दशब्दस्य द्विर्भावः । मन्दमन्दं सञ्चरतीति तच्छोलस्तेन शनैः शनैः सञ्चरणशीलेनेति भावः । बिहङ्गजाति प्रीत्या= पक्षिजातिस्नेहेन, जरत्कलहंसेन इव = वृद्धराजहंसेन इव, कञ्चुकिना= सौविदल्लकेन, कञ्चकिलक्षणं यथा
"अन्तः पुरचरो वुद्धो विप्रो गुणगणाऽन्वितः ।
सर्वशास्त्राऽर्थकुशल: कञ्चुकीत्यभिधीयते ॥" इत्युक्तलक्षणलक्षितेन अनुगम्यमानः = अनुत्रियमाणः, राजाऽन्तिकं = भूप (शूद्रक ) समीपम्, आजगाम = आययौ, जरत्कलहंसेनेत्युपमाऽलङ्कारः ।
क्षितितलेति। क्षितितल. = क्षितितले ( भूतले ) निहितं (स्थापितम् ) करतलं (हस्ततलम् ) येन सः । तादृशः कञ्चुकी = सौविदल्ल:, राजानं नृपं शूद्रकं, व्यज्ञापयत् = विज्ञापितवान् । देव हे राजन् !, देव्यः = महिष्यः, विज्ञापयन्ति = निवेदयन्ति । देवाऽऽदेशात् एव = मवदाज्ञाया एव, एषः = अयं, वैशम्पायनः = तन्नामकः शुकः, स्नातः = कृतस्नानः, अकर्मकात् ष्णाधातो: “गत्यर्थाकर्मकश्लिषशीस्थाऽऽसवसजनरुहजीर्यतिभ्यथे" ति कर्तरि क्त प्रत्ययः । कृताऽऽहारश्व-विहितमोजनश्च । प्रतीहार्या=द्वारपालिकया, देवपादमूल % मवच्चरणमुलम्, आनीत:=प्रापितः । इति =एवम्, अमिधाय = उक्त्वा, तस्मिन् = कञ्बुकिनि, गते = निवृत्ते सति, राजा, वैशम्पायनम्, अपृच्छत् =पृष्टवान् । अभ्यन्तरे = अन्तःपुरे, भवता= त्वया, किञ्चित् = किमपि । अभिमतम् = अभीष्टम्, अशनजातं = मक्ष्यपदार्थसमूहः, आस्वादितं कच्चित् = आस्वादनविषयीकृतं किम्, “कच्चित्कामप्रवेदने" इत्यमरः । सः = वैशम्पायनः, प्रत्युवाच = प्रत्युक्तवान् । देव = महाराज, किं वा = अशनजातं न आस्वादितम् = न आस्वादनविषयीकृतं, काकूः । सर्वमपि आस्वादितमिति भावः । तदेवमुपपादयति--आमत्तेत्यादिना । आमत्तकोकिललोचनच्छविः = आमत्तः (मदोन्मत्तः) यः कोकिल: (पिक: ), तस्य लोचनयोः (नेत्रयोः) इव छवि: ( कान्तिः ) यस्य सः । एवं च नीलपाटल:= कृष्ण-श्वेतरक्तः । कषायमधुरः = तुवरमिष्टः,
कञ्चकीने जमीनपर हाथोंको रखकर राजाको निवेदन किया-"महाराज ! रानियाँ निवेदन करती हैं कि महाराजकी आज्ञासे स्नानकर आहार ग्रहण करनेवाले इस वैशम्पायनको द्वारपालिका आपके चरणोंके समीप ले आई है" ऐसा कहकर कञ्जकीके जानेपर राजाने वैशम्पायनसे पूछा-"आपने अन्तःपुरमें अभीष्ट कुछ भोजन चख लिया ?" | वैशम्पायनने उत्तर दिया-महाराज ! मैंने क्या नहीं खाया ? मत्त कोयलके नेत्रोंके समान नीली और गुलाबी कान्तिसे युक्त कराय और मोठा जामुन का रस पर्याप्त पी लिया। सिंहके नाखूनोंसे विदीर्ण