Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 69
________________ कादम्बरी तत्र च शयने निषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्ग-निहितासिलतया खड्गवाहिन्या नव-नलिन-दल-कोमलेन करसम्पुटेन संवाह्यमानच रणस्तकालोचितदर्शनैरवनिपतिभिरमात्यैमित्रैश्च सह तास्ताः कथाः कुर्वन् मुहुर्तमिवासाञ्चक्रे । ततो नातिदूरतिनीम् 'अन्तःपुराद्वैशम्पायनमादायागच्छ' इति समुपजाततवृत्तान्तप्रश्न-कुतूहलो राजा प्रतीहारीमादिदेश । सा क्षितितल-निहित जानु-करतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञां यथादिष्टमकरोत। ___ अथ महादिव वैशम्पायनः प्रतीहा- गृहीतपञ्जरः कनकवेत्रलतावलम्बिना किञ्चिदवनतपूर्वकायेन सितकञ्चुकावच्छन्नवपुषा जराधवलितमौलिना गद्गदस्वरेण मन्दमन्दसञ्चारिणा विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । तत्रेति । तत्र =तस्मिन्, शयने =शय्यायां, निषण्ण: = उपविष्टः, शद्रक: । क्षितितलोपविष्टया क्षितितले ( भूतले ) उपविष्टया ( निषण्णया), एवं च, उत्सङ्गनिहिताऽसिलतया = उत्सङ्गे ( अङ्के ), निहिता (स्थापिता ), असिलता (खङ्गता) यया सा, तया । खङ्गवाहिन्या - करवालधारिण्या कयाचित् परिचारिकया, नवनलिन० = नवं ( नूतनम् ) यत् नलिनदलं (कमलपत्त्रम् ) तत् इव कोमलं ( मृदुलम् ), तेन तादृशेन करसंपुटेन = हस्तयुग्मेन, संवाह्यमानचरणः = संवाह्यमानौ ( संमद्य मानौ ) चरणौ ( पादौ ) यस्य सः । तत्कालोचितदर्शनैः= तत्काले ( तत्समये ) उचितं (योग्यम् ) दर्शनम् ( अवलोकनम् ) येषां ते, तैः । तादृशैः अवनिपतिभिः = भूपः, अमात्यैः = सचिवः, मित्रश्च = सुहद्भिश्च सह =सम, तास्ता:= अनेकप्रकारा:, कथा: = वार्ताऽऽलापान, कुर्वन् = विदधत्, मुहूर्तम् इव = कश्चित्क्षणम् इव । आसाञ्चक्रे = उपविवेश । नवनलिनमित्यत्र उपमाऽलङ्कारः । तत इति । ततः = कथाऽऽलापाऽनन्तरं, नाऽतिदूरवर्तिनी = नाऽतिविप्रकृष्टस्थानसंनिहितां, प्रतीहारी =द्वारपालिका, समुपजात० = समुपजातं (समुत्पन्नम् ) तस्य (शुकस्य ) वृत्तान्तप्रश्ने ( उदन्तपृच्छायाम् ) कुतूहलं ( कौतुकम् ) यस्य सः, तादृशः सन्, राजा । अन्तःपुरात् = शुद्धान्तात् । वैशम्पायनं = तन्नामकं शुकम्, आदाय = गृहीत्वा, आगच्छ -आयाहि, इति, आदिदेश = आज्ञापयामास । सेति । सा= प्रतीहारी, क्षितितल. = क्षितितले ( भूतले ) निहितं ( स्थापितम् ) जानुकरतलं ( ऊरुपर्वहस्ततलम् ) यया सा । तादृशी सतो। देवः = राजा, भवान्, यथा = येन प्रकारेण, आज्ञापयति = आदिशति । तथैवाचरिष्यामीति शेषः । इति = एवं, शिरसि = मस्तके, आज्ञाम् = आदेशं, कृत्वा = विधाय, यथादिष्टम् = आज्ञाऽनुसारम्, अकरोत् = कृतवती । ___अथ = अनन्तरं, मुहूर्तात् इव = अल्पकालात् इव, प्रतीहार्या = द्वारपालिकया, गृहीतपञ्जरः= गृहीतम् ( आत्तम् ) पञ्जरं ( लौहशलाकानिमितं पक्षिनिवेशनयन्त्रम् ) यस्य सः, तादृशो वैशम्पायनः । वहाँपर पलंगपर बैठकर जमीनपर बैठी हुई तलवारको गोदमें रखनेवाली तलवार धारण करनेवाली स्वासे नये कमल पत्त्रके समान कोमल हाथोंसे धीरे धीर मदित चरणोंवाले राजा ( शूद्रक ) उस समय उचित दर्शनवाले राजाओ, सचिवों और मित्रोंके साथ अनेक प्रकारके वार्तालाप कर कुछ समयतक बैठे रहे। तब वैशम्पायनके विषयमें प्रश्न करनेको उत्कण्ठा उत्पन्न होनेसे कुछ दूर रहनेवाली द्वारपालिकाको “अन्तःपुरसे वैशम्पायनको लेकर आओ” इस प्रकार राजाने आज्ञा दी। द्वारपालिकाने घुटनों और करतलोंको जमीनपर रखकर "महाराजको जैसी आज्ञा" ऐसा कहकर शिरमें आशाको रखकर आज्ञाके अनुसार किया। तब कुछ समयके अनन्तर ही द्वारपालिकाने जिसका पिंजड़ा लिया था वह वैशम्पायन तोता सुवर्णकी वेत्रलताबो लेनेवाले शरीरके पूर्वभावको कुछ झुकानेवाले और सफेद जामाको धारण करनेवाले बुढ़ापासे सफेद शिरवाले गद गद ( अस्पष्ट ) स्वरवाले और धीरे-धीरे चलनेवाले पक्षिजातिके प्रेमसे मानों बूढ़े हंसके सदृश क कीसे अनुगत होकर राजाके पास आ गया।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172