Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कादम्बरी
विरचितामोदि-मालतीकुसुमशेखरः कृतवस्त्रपरिवर्तो रत्नकर्णपूरमात्राभरण: समुचितभोजनः सह भूपतिभिराहारमभिमत-रसास्वाद-जातप्रीतिरवनिपो निर्वतयामास ।
परिपीतधूमवत्तिरुपस्पृश्य च गृहीतताम्बूलस्तस्मात् प्रमृष्ट-मणि-कुट्टिम-प्रदेशादुत्थाय नातिदूरत्तिन्या ससम्भ्रम-प्रधावितया प्रतीहार्या प्रसारितं बाहुम अवलम्ब्यानवरतवेत्रलताग्रहण-प्रसङ्गादतिजरठ-किसलयानुकारि-करतलं करेण, अभ्यन्तरसञ्चारसमुचितेन परिजनेनानुगम्यमानो धवलांशुक-परिगतपर्यन्ततया स्फटिक-मणिमय-भित्ति-बद्धमिवोपलक्ष्यमाणम्, अतिसुरभिणा मृगनाभिपरिमलेनामोदिना चन्दनवारिणा सिक्तशिशिरमणिभूमिम्,
अनुलिप्तानि ( लेपितानि ) सर्वाणि (सकलानि ) अङ्गानि ( अवयवा: ) यस्य तेन । विरचितामोदि० =विरचित: ( कृतविरचनः ) आमोदिनाम् ( अतिसुगन्धयुक्तानाम् ) मालतीकुसुमानां (जातिपुष्पाणाम् ) शेखरः ( शिरोभूषणम् ) येन सः। कृतवस्त्रपरिवर्तः = कृतः (विहितः ) वस्त्रयोः ( पूर्व परिहितयोरुत्तरीयाऽधरीययोः ) परिवर्तः ( परिवर्तनम् ) येन स: । रत्नकर्णपूरमात्राऽऽभरणः = रत्नखचितं मणिखचितं कर्णपूरमात्रम् ( कर्णभूषणम् एव ) आमरणम् ( अलङ्कारः ) यस्य सः । समुचितभोजनः = समुचितं ( योग्यम् ) भोजनं ( भक्षणम् ) येषां तैः, तादृशः भूपतिभिः = राजमिः, सह = समम् । अभिमत० = अभिमता: ( अभीष्टा: ) ये रसाः ( मधुरादयः ) तेषाम् आस्वादः (आस्वादनम् ) तेन जाता ( उत्पन्ना) प्रीतिः ( सन्तुष्टिः ) यस्य सः । तादृशः नृपतिः = राजा । आहारं = भक्षणम्, निवर्तयामास = निष्पादयामास ।
उपस्पृश्य = आचम्य "उपस्पर्शस्त्वाचमनम्' इत्यमरः ।
परिपीतधूमवतिः = परिपोता (पानविषयीकृता) धूमवतिः = ( द्रव्यविशेषः ) येन सः । गृहीतताम्बूल: = गृहीतम् ( आत्तम् ) ताम्बूलं ( नागवल्लीदलम् ) येन सः । तस्मात्, प्रमृष्ट मणिकुट्टिमप्रदेशात = प्रमष्ट: ( जलादिशोधितः ) यो मणिकट्रिमप्रदेश: ( रत्ननिबद्धस्थानं ), तस्मात् उत्थाय - उत्थानं कृत्या, नाऽतिदूरवर्तिन्यां = नाऽतिविप्रकृटस्थले विद्यमानया, ससम्भ्रमप्रधावितया = ससम्भ्रमं (सत्वरम् ) प्रधावितया (त्वरितं गच्छन्त्या), तादृश्या प्रतीहार्या = द्वारपालिकया अनवरत० % अनवरतं (निरन्तरं यथा तथा ) यः = वेत्रलताग्रहणप्रसङ्गः ( वेतसयटघुपादानाऽवसर: ) तस्मात् । अतिजरठेत्यादिः = अति जरठम् ) अतिजीर्णम्, अतिकठिन मिति भाव: ) यत् किसलयं ( पल्लव: ), तस्य अनुकारि ( अनुकरणशील, सदशमिति भावः ) तादृशं करतल ( हस्ततलम् ) यस्य, तं, तादृशं प्रसारितबाहूं = विस्तारितभुनम् । करेण = हस्तेन । अवलम्व्य = गृहीत्वा । अभ्यन्तरसंचारसमुचितेनअभ्यन्तरे ( अन्तःपुरे ) य: सञ्चारः ( सञ्चरणम् ), तस्मिन् समुचितेन ( योग्येन ), परिजनेन = सेवकेन, अनुगम्यमानः = अनुत्रियमाणः । धवलांऽशुकेत्यादिः = धवलं ( शुभ्रम् ) या अंशुकं ( क्षोमवस्त्रम् ) तेन परिगतः (परिवेष्टित: ) पर्यन्तः (प्रान्तभागः), तस्य भावः, तत्ता, तया । स्फटिकेत्यादिः = स्फटिकमणिमयी ( स्फटिकरत्नमयी) या भित्तिः (कुड्यम् ) तया निबद्धम् ( रचितम् ) इव, उपलक्ष्यमाणं दृश्यमानम्, अनेन अंशुकानां धावल्याऽतिशपः प्रतीयते । उत्प्रेक्षाऽलङ्कारः ।
अनुसरण किये गये करनी कपूर केसरके सम्पर्कसे सुगन्धपूर्ण चन्दनसे सब अङ्गोंमें लेपन कर सुगन्धित चमेलीके फूलोंके शिरोभूषणसे युक्त होकर कपड़ोंको बदल कर रत्नखचित कर्णभूषणमात्र धारण कर अपने साथ भोजन करनेके लिए योग्य राजाओंके साथ अभीष्ट रसके आस्वादनसे प्रसन्न होकर राजाने आहार किया।
तब (औपधोंसे बने हुए) धूम्रपान कर आचमन कर ताम्बूल लेकर उस परिष्कृत मणिखचित फर्शन उठकर कुछ ही दूर प्रदेशमें रही हुई शीघ्रताके साथ आई हुई द्वारपालिकाके वेत्रलतावा लेते रहनेसे अति कठोर पल्लवके सदृश फैलाये हुए बाहुलताके करतलको अपने हाथसे सहारा लेकर अन्तःपुरमें सचरणमें योग्य सेवकसे अनुगत होकर सफेद रेशमो वोंसे वेष्टित प्रान्तभागवाला होनेसे स्फटिकमणिमय भीतसे बने हुएके समान

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172