Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 44
________________ कथामुखे—शूद्रकवर्णनम् देशे, दुकूले वसानम्, अतिसुरभि चन्दनानुलेपन-ध्वलितोरःस्थलम् उपरि विन्यस्त-कुङ्कुमस्थासकम्, अन्तरान्तरानिपतितबालातपच्छेदमिव कैलाशशिखरिणम्, अपर-शशि-शङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्, अतिचपल-राज- लक्ष्मीबन्धनिगड-शङ्कामुपजनयतेन्द्रमणिकेयूरयुग्मेन मलयज-रस-गन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितबाहुयुगलम् ईषदालम्बि - कर्णोत्पलम्, २७ एव भृदितौ ( व्यापादितौ ) यौ मधुकैटभौ ( दैत्यविशेषौ ) तयोः रुधिरम् ( रक्तम् ) इव अरुणं ( रक्तवर्णम् ), तेन तादृशेन ऊरुयुगलेन = सक्थियुगेन, विराजमानं = शोभमानं हरिम् = मधुसूदनम्, इव । राजधारित दुकूले विशिनष्टि - अमृतफेनेति । अमृतफेनधवले = पीयूषडिण्डीरशुभ्रे, गोरोचनालिखितहंसमिथुनसनाथपर्यन्ते = गोरोचनया ( गोपित्तेन ) लिखितानि (चित्रितानि ) यानि हंस मिथुनानि ( चक्राङ्गयुगलानि ) तैः सनाथा : ( सहिताः ) पर्यन्ता: प्रान्तभागाः ) ययोस्ते, चारुचामरवायुप्रनर्तिताऽन्तदेशे = चारुः ( मनोहर:, सुखस्पर्श इति भावः ) यश्चामरवायु: ( प्रकीर्णकपवनः ), तेन प्रवर्तिताः ( आन्दोलिता: ) अन्तदेशा: ( प्रान्तभागाः ) ययोस्ते, तादृशे दुकूले = क्षौमे, वसानं = धारयन्तम् । “अमृतफेनधवले" इत्यत्र लुप्तोपमा । अतीति । अतिसुरभीत्यादिः = अतिसुरभि: ( अतिसुगन्धयुक्तः ) यः चन्दनः ( मलयजः ) तस्य अनुलेपनं ( विलेपनम् ), तेन धवलितम् ( शुभ्रीकृतम् ) उरःस्थलं ( वक्ष:स्थलम् यस्य तम् । उपरिविन्यस्तकुङ्कुमस्थासकम् = उपरि ( वक्षःस्थलोर्ध्वभागे ) विन्यस्ता: ( विहिताः ) कुङ्कुमस्य ( केसरस्य ) स्थासका: ( विलेपनानि ) यस्य, तम् । " चर्चा तु चाचिक्यं स्थासकः । " इत्यमरः । अन्तराऽन्तरानिपतितबालाऽऽतपच्छेदम् = अन्तराऽन्तरा ( मध्ये मध्ये ) निपतिता: ( पर्यस्ताः ) बालाSsaपस्य ( नवोदितसूर्यप्रकाशस्य ) छेदा: ( खण्डा : ) यस्य तं तादृशं कैलासशिखरिणम् = कैलासपर्वतम् इव । उपमाऽऽलङ्कारः । भूयो नृपं विशिनष्टि — अपरेति । अपरशशिशङ्कया = अपर : ( अन्यः ) यः शशी ( चन्द्रः ), तस्य शङ्का ( सन्देहः, भ्रान्तिरिति भावः तया । नक्षत्रमालया = तारापङ्क्त्या, इव, हारलतया = मुक्तामालावल्ल्या, कृतमुखपरिवेषं = कृत: ( विहित ) मुखस्य ( वदनस्य ) परिवेष : ( परिधिः ), यस्य तम् । अत्र मुखे शशिभ्रान्त्या भ्रान्तिमान्, "नक्षत्रमालया इवे" त्यत्रोत्प्रेक्षा, तथा चानयोरङ्गाङ्गभावेनसङ्करः । अनेन हारलताया अत्यन्तनैर्मल्यं मुखस्य च चन्द्रसाम्यं सूचितम् । केयूरयुग्मं विशिनष्टि —अतिचपलेति । अतिचपल राजलक्ष्मीत्यादिः = अतिचपला ( अधिकचञ्चला ) या राजलक्ष्मी: ( राजश्रीः ) तस्या बन्ध: ( बन्धनम् ) तदर्थं यो निगड : ( शृङ्खला ), स कटक: ( वलय ) इव, तस्य शङ्का ( भ्रान्तिः ), ताम्, उपजनयता = प्रकाशयता इन्द्रमणिकेयूरयुग्मेन = इन्द्रमणिखचितम् ( इन्द्रनीलरत्नखचितम् ) यत् केयूरयुग्मम् ( अङ्गदयुगलम् ), तेन । अतः मलयजरसगन्धलुब्धेन = मलयजरस: ( चन्दनद्रव: ) तस्य गन्धः ( सौरभम् ) तस्मिन् लुब्धेन ( लोलुपेन ) । भुजङ्गद्वयेन = सर्पयुग्मेन, इव वेष्टितबादुयुगलं = वेष्टितम् ( आवृतम् ) बाहुयुगलं ( भुजयुग्मम् ) यस्य तम् । " वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ।" इत्यमरः । अत्र “निगड : फेनके समान उज्वल गोरोचनसे लिखे गये हंसके जोड़ोंके चित्रसे युक्त प्रान्तभागवाले और चेंबर की हवा से जिसका प्रान्तभाग हिल रहा है ऐसे रेशमी वस्त्र ( उत्तरीय और अधरीय) को धारण करनेवाले, जिनका वक्षःस्थल ( छाती ) अत्यन्त सुगन्धित चन्दनके अनुलेपनसे सफेद हो गया है । छातीके ऊपर केसर के विलेपनसे युक्त, मध्य में बालसूर्य के प्रकाश से युक्त कैलाशपर्वतके समान, उनके गलेमें हारलता दूसरे चन्द्रकी शङ्कासे मानों नक्षत्रमाला है। ऐसी प्रतीत होती थी । अत्यन्त चञ्चल राजलक्ष्मी के बन्धनकी शृङ्खलाकी शङ्काको उत्पन्न करनेवाले इन्द्र नीलमणिके बाजूबन्दोंसे—चन्दनरसकें गन्धसे लुब्ध मानों दो सर्पोंसे - वेष्टित दो बाहुबाले थे। जिनके कानमें कमल लटक

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172