Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
३७
कथामुखे-शुकप्रशंसा सर्वथा धिग्विधातारम् असदृशसंयोगकारिणम् । मनोहराकृतिरपि करजातितया येनेयमसुरश्रीरिव सतत-निन्दित-सुरता रमणीयाऽप्युद्वेजयति' इति।।
एवमादि चिन्तयन्तमेव राजानमीपदवगलित-कर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम।
कृतप्रणामायाञ्च तस्यां मणिकुट्टिमोपविष्टायाम्, स पुरुषस्तं विहङ्गमं शुकमादाय पञ्जरगतमेव किश्चि ,पसृत्य राज्ञे न्यवेदयदब्रवीच्च
'देव ! विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालापनिपुणः, वेदिता गीतश्रुतीनाम्,काव्य-नाटकाख्यायिकाख्यानक-प्रभृतीनामपरिमितानां सुभाषितानामध्येता स्पशंक्लेशितोनां = हस्ततलामर्शनबाधितानाम्, अवयवानाम् = अङ्गानाम्, ईदृशी- एतादृशी, कान्तिःशोभा, नहि भवति = न सम्पद्यते ।
सर्वथेति । असदृशसंयोगकारिणम् = असदृशः ( सादृश्यरहितः, अनुपयुक्त इति भाव: ) एतादृशः यः संयोगः ( सम्बन्धः ), तत्कारिणं ( तद्विधातारम् ), विधातारं (ब्रह्मदेवम् ), धिक = निन्दा, निन्दामीतिभावः । येन = असदृश संयोगेन, रमणीया = मनोहरा, अपि, इयं% चाण्डालकन्यका, असुरश्रीः = दैत्यलक्ष्मीः , इव, सततनिन्दितसुरता = सततं (निरन्तरम् ) निन्दितं, ( जुगुप्सितम् ) सुरतं ( रतिक्रीडा ), यस्याः सा, असुरश्रीपक्षे-सततनिन्दिता (निरन्तरजुगुत्सिता ) सुरता ( सुरसमूहः, सुरभावो वा ) यया सा, तादृशी सती उद्वेजयति = उद्वेगं जनयति, वरस्यमुत्पादयतीतिभावः ।
एवमिति । एवमादि% इत्यादिकं, चिन्तयन्तं =विमशं कुर्वन्तम्, एव, राजानं = भूपालं, शुद्रकम्, ईषदवगलितकर्णपल्लवाऽवतंसा = ईषत् ( अल्पम् ) अवगलितो (अधोऽवलम्बितौ) कर्णपल्लवी ( श्रोत्रकिसलये ) एवं अवतंसौ (भूषणे ) यस्याः सा, तादृशी सती, कन्यका = कुमारी। चाण्डालस्येति शेषः, प्रगल्भवनिता = प्रौढनायिका, इव, प्रणनाम =प्रणामं चकार ।
कृतेति । कृतप्रणामायां= कृतः (विहितः ) प्रणामः ( नमस्कारः ) यया, तस्याम् । तदनन्तरं, मणिकुट्टिमोपविष्टायां = मणिकुट्टिमं ( रत्ननिबद्धभूमिः ) तत्र उपविष्टायां ( निषण्णायाम्, सत्यां ) सः = पूर्वोक्तः, पुरुषः = पुमान्, चाण्डालकन्यायाः, पुरोगामीति शेषः । पञ्जरगतम् = पिञ्जरस्थितम्, एव, तं =पूर्वोक्तं, विहङ्गमं पक्षिणं, शुकम्, आदाय = गृहीत्वा, राजे-भूपालाय, शूद्रकाय, न्यवेदयत् = निवेदितवान्, अब्रवीच्च = अकथयच्च ।
देवेति । देव = राजन् !, विदितसकलशास्त्राऽर्थः = विदिता: ( ज्ञाताः ) सकला: ( समस्ताः ) शास्त्रार्थाः ( वेदादिशास्त्रतत्त्वानि ) येन सः । राजनीतिप्रयोगकुशलः = राजनीतिप्रयोगे ( राजनयव्यवहारे ) कुशल: (निपुणः ), पुराणेतिहासकथाऽऽलापनिपुणः = पुराणम् (पञ्चलक्षणं, ब्राह्मादिकम् ) इतिहासः (रावृत्तं, रामायणादिकम्), तयोः याः कथाः ( वृत्तान्ताः ) तासाम् आलापः (आभाषणम् ), तत्र निपुणः ( प्रवीणः ) । गीतश्रुतीनां = गोतं ( गानम् ) श्रुतयः ( तीवाऽऽदिका द्वाविंशतिसंख्यकाः ), तासां, "वेदिते" ति पदेन योगे "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी। वेदिता =ज्ञाता। काव्येत्यादिः = काव्यं ( कविकर्म), नाटकं ( अभिनेयं काव्यम् ), आख्यायिका ( गद्यकाव्यविशेष: ) दोषरहित लावण्य कैसे होता ? हाथके स्पशसे बाधित अवयवोंकी ऐसी कान्ति नहीं होती है। असमान पदार्थोंका संयोग करनेवाले विधाताको सर्वथा धिक्कार है, जिससे सुरता ( देवसमूह ) की निन्दा करनेवाली असुरश्री ( दैत्यलक्ष्मी) की समान यह मनोहर होनेपर भी निरन्तर निन्दित सुरत ( रतिक्रीडा ) वाली होकर चित्तको उद्विग्न (विचलित ) कर रही है। इस प्रकार विचार करनेवाले राजाको कर्णपल्लवोंको कुछ झुकाती हुई उस चाण्डालाकन्याने प्रगल्भ स्त्रोके समान प्रणाम किया। प्रणाम करके उस कन्याके रत्नोंके फर्शपर बैठनेपर उस पुरुषने पिंजड़ेमें रहे हुए उस तोतेको लेकर कुछ समीप आकर राजाको समर्पण किया, और कहा भी-राजन् ! समस्त शास्त्रोंके अर्थको जाननेवाला, राजनीतिके व्यवहारमें कुशल, पुराण और इतिहासकी कथाओंके भाषणमें कुशल,

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172