Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 58
________________ ४१ कथामुखे-शूद्रकसभाविसर्जनम् देवेन। तत्राप्यन्यजन्मोपात्त-संस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यच्च, एतेषामपि पुरा पुरुषाणामिवातिपरिस्फुटाभिधाना वागासीत्, अग्निशापात्त्वस्फुटालापता शकानामपजाता, करिणाञ्च जिह्वापरिवत्तिः।। __इत्येवमुच्चारयत्येव तस्मिन्नशिशिरकिरणमम्बरतलस्य मध्यमारूढमावेदयन्, नाडिकाच्छेद-प्रहत-पटु-पटह-नादानुसारी मध्याह्न-शङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य च समासन्नस्नानसमयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ। अथ चलति महीपतावन्योन्यमतिरभस-सञ्चलन-चालिताङ्गद-पत्त्रभङ्ग-मकरकोटिविशेषाः, यथाश्रुतां = श्रवणाऽनुसारिणी, वाचं = वाणीम्, अर्थबोधशन्यं यथा तथेति शेषः । उच्चारयन्ति = प्रतिपादयन्ति, इति = एतत्, देवेन =तत्रभवता, अधिगतं = ज्ञातम्, एव । अत्र हेत्वन्तरं प्रतिपादयति-तत्राऽपोति । तत्रापि उच्चारणविशेषेऽपि,अन्यजन्मोपात्तेत्यादिःअन्यजन्मनि ( पूर्वजन्मनि ) उपात्तः ( प्राप्तः ) यः संस्कारः ( वासना ) तदनुबन्धेन ( तदनुसरणेन ) वा= अथवा, पुरुषप्रयत्नेन = मानवप्रयासेन, वा, संस्काराऽतिशयः वासनादाढ्यम्, उपजायते उत्पद्यते इति = अतः, नाऽतिचित्रम् = नाऽधिकाश्चर्यम्, अस्य व्यक्तवाचोच्चारण इति भावः । अन्यच्चेति । अन्यत् = अपरं, च पुरा = पूर्वकाले, एतेषाम् अपि = पशुपक्षिणाम् अपि, पुरुषाणाम् इव = मनुष्याणाम् इव अतिपरिस्फुटाऽभिधाना = अतिपरिस्फुटम् ( अधिकव्यक्तम ) अभिधानम (उच्चारणम् ) यस्यां सा, तादृशी वाक् = वाणी, आसीत् = अभवत् । अग्निशापात् = अनलशापात हेतोः, तु, शुकानां = कीराणाम्, अपरिस्फुटाऽभिधाना = अस्फुटाऽऽलापता, अव्यक्तोच्चारणता, उपजाता = समुत्पन्ना,करिणां हस्तिनां, च जिह्वापरिवृत्तिः = रसनापरिवर्तन, व्यक्तवागुच्चारणसमर्था जिहां दूरीकृत्य जिह्वान्तरपरिवृत्तिरिति भावः । उपजातेति पूर्वस्थपदेन सम्बन्धः । एवमिति । एवम् = इत्थं, पूर्वोक्तप्रकारं, तस्मिन् == कुमारपालित इति भावः । उच्चारयति एब- उक्तवति एव, अम्बरतलस्य = आकाशतलस्य, मध्यम् = अन्तरभागम्, अध्यारूढं = कृताऽधिरोहणम्, अशिशिरकिरणम् = ऊष्णरश्मि, सूर्यमित्यर्थः । आवेदयन् = ज्ञापयन् । नाडिकेत्यादिः = नाडिका ( घटिका ) तस्याः छेदः ( समाप्तिः ) तत्र प्रहतः ( ताडितः ) यः पटुः ( दृढः ) पटहः ( आनकः ), तस्य यो नाद: ( ध्वनिः ), तदनुसारी (तदनुसरणशील: ) “आनक: पटहोऽस्त्री स्यात्" इत्यमरः । मध्याह्नशङ्खध्वनिः = मध्याह्न ( अह्नो मध्ये ) ताडितः यः शङ्खः ( कम्बुः ) तस्य ध्वनिः ( नादः ) उदतिष्ठत् = उत्थितः । तमिति । तं = ध्वनिम्, आकर्ण्य = श्रुत्वा, च। समासन्नस्नानसमयः = समासन्नः ( सन्निकटवर्ती ) स्नानसमयः ( मज्जनकाल: ) यस्य सः । तादृशः क्षितिपतिः = राजा, विसर्जितराजलोकः = विसर्जित: (निवर्तितः ) राजलोकः ( सामन्तमण्डलम् ) येन सः, तादृशः सन्, आस्थानमण्डपात = सभाभवनात्, उत्तस्थौ = उत्थितः । अथेति । अथ = राजोत्थानाऽनन्तरं, महीपतौ= राशि, चलति = संचलनं कुर्वति सति, “मही यह तो आप जानते ही हैं। उसमें भी पूर्व जन्ममें प्राप्त संस्कारके अनुसरणसे वा पुरुषके प्रयत्नसे विशेष संस्कार उत्पन्न हो जाता है इसमें ज्यादा आश्चर्य नहीं है। और भी बात है, इन लोगोंका भी पहले मनुष्योंके समान बहुत ही स्पष्ट उच्चारणवाली वाणी थी। अग्निदेवके शापसे तोतोंकी वाणी अस्पष्ट हो गई और हाथियोंकी जीभ उलटी हुई है। कुमारपालितके ऐसा कहनेके अनन्तर ही सूर्य आकाशके मध्यभागमें आरूढ हो गये हैं ऐसा ज्ञापन करती हुई घड़ीकी समाप्तिमें बजाये गये नगाड़ेके शब्दका अनुसरण करनेवाली मध्याह्नकी शङ्खध्वनि बज गई। उसे सुनकर स्नानका समय निकट होनेसे सामन्तोंको रुखसत कर राजा सभामण्डपसे उठ गये। तब राजाके चलनेपर परस्पर अत्यन्त वेगसे चलनेसे सञ्चलित बाजूबन्दोंके सुवर्णखण्ड और मकराकार

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172