Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 59
________________ कादम्बरी पाटितांशुकपटानाम्, आक्षेप - दोलायमान - कण्ठदाम्नाम्, अंसस्थलोल्लासित कुङ्कुम-पटवासधूलि - पटलपिञ्जरीकृत - दिशाम्, आलोल- मालती कुसुम-शेखरोत्पतदलिकदम्बकानाम्, अर्द्धाविलम्बिभिः कर्णोत्पलैश्शुम्ब्यमा नगण्डस्थलानाम्, गमन प्रणाम - लालसानाम् अहमहमिकया, वक्षःस्थलप्रेङ्खोलित - हारलतानाम्, उत्तिष्ठतामासीदतिमहान् सम्भ्रमो महीपतीनाम् । ४२ इतश्वेतश्च निष्पतन्तीनां स्कन्धावसक्त चामराणां चामरग्राहिणीनां कमलमधुपानमत्तजरत्कलहंस-नाद-जर्जरितेन पदे पदे रणितमणीनां मणिनूपुराणां निनादेन, वारविलासिनीजनस्य सञ्चरतो जघनस्थलास्फालनरसित - रत्नमालिकानां मेखलानां मनोहारिणा झङ्कारेण, नूपुरवा - 1 = पतीनां संभ्रम आसीत्” इत्येतैः वक्ष्यमाणपद सम्बन्धः । अन्योन्य = परस्परम्, अतिर मसेत्यादिः = अतिरभसेन ( अतिवेगेन ) यत् संचलनं ( गमनम् ) तेन, चालितानि ( स्वस्थानाच्च्यावितानि ) अङ्गदपत्त्राणि ( केयूरसुवर्णपत्राणि ) तेषां भङ्गाः ( खण्डानि ) तथा मकरा: ( मकराकारकुण्डलानि, नामंकदेशे नामग्रहणमिति न्यायात् ) तेषां कोटय: ( अग्रभागा ), ताभिः पाटिता: ( विदारिताः ) अंशुकपटा : ( सूक्ष्मवस्त्राणि ) येषां तेषाम् । आक्षेपदोलायमानकण्ठदाम्नाम् = आक्षेपेण ( परस्परसम्बन्धेन ) दोलायमानानि ( दोलावदाचरन्ति, चञ्चलानीति भावः ) कण्ठदामानि ( गलमाल्यानि ) येषां, तेषाम् । अंसस्थलोल्लासितेत्यादिः = अंसस्थलेभ्यः ( स्कन्धस्थानेम्य: ) यानि कुङ्कुमपटवासधूलिपटलानि ( कुङ्कुमानां केसराणां, पटवासानांपिष्टातकानां गन्धद्रव्यविशेषणामित्यर्थः, यानि धूलिपटलानि ( परागसमूहाः ), तैः पिञ्जरीकृता: ( पीतरक्तीकृताः ) दिश: ( काष्ठा: ) य:, तेषाम् आलोलेत्यादिः = आलोला: ( चञ्चलाः ) ये मालतीपुष्पाणाम् ( जातिकुसुमानाम् ) शेखरा: ( शिरोभूषणानि ) तेभ्यः उत्पतन्ति ( उड्डीयमानानि ) अलिकदम्बकानि ( भ्रमरसमूहाः ) येषां तेषाम् । अर्धाऽवलम्बिभिः = अर्धभागलग्नंः । कर्णोत्पलैः = श्रवणकुवलयेः । चुम्ब्यमानगण्डस्थलानां = चुम्ब्यमानं ( सम्बद्ध्यमानम् ) गण्डस्थलं ( कपोलस्थलम् ) येषां तेषाम्, अहमहमिकया = अहं पूर्वमहं पूर्वमित्यहङ्कारक्रियया । "अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः । " इत्यमरः । गमनप्रणामलालसानां = गमने ( प्रस्थानसमये ) यः प्रणाम: ( नमस्कारः ) तस्मिन् लालसानाम् ( अत्युकण्ठितानाम् ) । वक्षःस्थलप्रेङ्खोलितहारलतानां = वक्षःस्थले ( उरःस्थले ) प्रेङ्खोलिता ( सञ्चलिता ) हालता ( मुक्कामाला ) येषां तेषाम् । उत्तिष्ठताम् = उत्थानं कुर्वतां तादृशानां महीपतीनां राज्ञाम् । संग्रमः = त्वरा, आसीत् = अभवत् । इतश्चेतश्चेति । इतश्च इतश्च = संभ्रमवशात् इतश्च ततश्च । निष्पतन्तीनां = निष्क्रामन्तीनां, स्कन्धाऽवसक्तचामराणां = स्कन्धेषु ( अंसेषु ) अवसक्तानि ( न्यस्तानि ) चामराणि ( प्रकीर्णकानि ) यासां, तासाम् । चामरग्राहिणीनां = प्रकीर्णकधारिणीनां स्त्रीणाम् । कमलमधुपानेत्यादिः = कमलेषु ( पद्मेषु ) यत् मधु ( पुष्परसः ) तस्य पानम् ( आस्वादः ) तेन मत्ता: ( मदयुक्ता: ) जरन्तः ( जीर्णाः ) ये कलहंसाः ( कादम्बाः ) तेषां नादः ( ध्वनि: ) तेन जर्जरितेन ( मिश्रितेन ) पदे पदे = प्रतिपदम् । रणितमणीनां = रणिताः ( शब्दिताः ) मणयः ( रत्नानि ) येषां तेषाम् । तादृशानां कुण्डलोंके अग्रभागोंसे विदारित महीन कपड़ोंवाले परस्पर सम्बन्धसे हिलनेवाली मालाओंसे युक्त, कन्धोंसे उठे हुए केसर और सुगन्धिद्रव्योंके चूर्णोंसे दिशाओंको पीतवर्ण करनेवाले, जिनके चञ्चल मालतीपुष्पों के मुकुटोंसे भौरे उड़ रहे थे, आधे लटके हुए कर्णभूषण कमलोंसे जिनके कपोल चुम्बित-से प्रतीत हो रहे थे जाते समय राजाको प्रणाम करनेके लिए अत्यन्त उत्कण्ठित, पहले प्रणाम करनेकी होड़बाजीसे जिनके वक्षःस्थलोंपर मोतियोंकी माला हिल रही थी, उठते हुए उन राजाओंका बहुत अधिक संभ्रम ( जल्दबाजी ) हो रहा था। इधर उधर से निकलती हुई कन्धोंपर चमर रखनेवाली स्त्रियोंके कमलके मधुको पीनेसे मत्त वृद्ध इंसोंके शब्दसे मिश्रित, पग-पगपर बजाती हुई मणियोंसे युक्त नूपुरोंकी ध्वनिसं चलती हुई वेश्याओंके जघनस्थलोंपर

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172