Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 56
________________ कथामुखे-शुकप्रशंसा 'स्तनयुगमश्रुस्नातं समीपतरवति हृदयशोकाग्नेः। चरति विमुक्ताहारं व्रतमिव भवतो रिपुत्रीणाम् ॥' राजा तु तां श्रुत्वा संजात-विस्मयः सहर्षमासन्नत्तिनम् अतिमहाघहेमासनोपविष्टम् अमरगुरुमिवाशेषनीतिशास्त्रपारगम् अतिवयसमग्रजन्मानमखिलमन्त्रिमण्डले प्रधानममात्यं कुमारपालितनामानमब्रवीत् 'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता ! प्रथमं तावदिपक्षिराजः शुकः, राजाऽभिमुखः = नृपसंमुखः, भूत्वा, दक्षिणं = वामेतरं, चरणं = पादं, समुन्नमय्य = समुन्नतं कृत्वा, ऊवं विधायेति भावः । अतिस्पष्टेत्यादिः = अतिस्पष्टाः ( अधिकस्फुटा: ) वर्णाः ( अक्षरा: ) स्वराः ( उदात्तादयः ), तेषां संस्काराः (परिपाकाः ) यस्यां, तया गिरा = वाण्या कृतजयशब्दः = । कृतः (विहितः ) जयशब्दः ( जयेतिपदम् ) येन सः । राजानं = भूपतिम्, उद्दिश्यअनद्य, इमां वक्ष्यमाणप्रकाराम, आयर्या = मात्राच्छन्दोविशेषं, पपाठ = पठितवान् । __अन्वयः-अश्रुस्नातं हृदयशोकाऽग्नेः समीपतरवर्ति विमुक्ताऽऽहारं भवतो रिपुस्त्रीणां स्तनय गं व्रतं चरति इवेत्यन्वयः । स्तनयुगमिति । हे राजन् ! इति सम्बोधनपदमध्याहार्यम् । अश्रुस्नातम् = अश्रुभिः ( नयनसलिल: ) स्नातं ( कृतस्नानम् ), हृदयशोकाऽग्नेः = हृदये ( चित्ते ) यः शोकाऽग्निः ( शोकः = मन्युः पत्युर्वधजनितो बन्धजनितो वेतिशेष: ) एव अग्निः ( वह्निः ) तस्य, समीपतरवति = निकटतरस्थितं, विमुक्ताहारं =विगतः मुक्ताहारो ( मौक्तिकमाला ) यस्मात्तत्, तादृशं भवतः =तव, रिपस्त्रीणांवैरिनारीणां, स्तनयगं = पयोधरयुग्मं । व्रतं कृच्छादिनियम, चरति अनुतिष्ठति । अन्योऽपि कृच्छादिव्रताऽनुष्ठाता जन: स्नानं करोति हवनाऽनलसमीपे तिष्ठति, आहारं च विमुञ्चति । आर्या छन्दः । अस्मिन्पद्ये "हृदयशोकाऽग्नेः' इत्यत्र निरङ्गरूपकं "विमुक्ताहारम्" इत्यत्र सभङ्गश्लेषः, क्रियोत्प्रेक्षाचेत्यलड्राराणां मिथोऽनपेक्षया स्थिते: संसृष्टिरलङ्कारः ।। २१ ।। राजेति । राजा तु = नृपश्च, तांपूर्वोक्ताम्, आयाँ = मात्राच्छन्दोविशेष, श्रुत्वा = आकयं. सञ्जातविस्मयः = सञ्जातः ( समुत्पन्नः ) विस्मयः ( आश्चर्यम् ) यस्य सः, तथा सन्, आसन्नवतिनं = निकटस्थितम्, अतिमहाऽर्घहेमाऽऽसनोपविष्टम् =अतिमहाऽर्घम् ( अधिकबहुमूल्यम् ) यत् हेमाऽऽसनं ( सूवर्णासनम् ) तस्मिन् उपविष्टम् ( निषण्णम् )। अमरगुरुं =देवाचार्य बृहस्पतिम्, इव. अशेषनीतिशास्त्रम् = अशेषाणि ( समस्तानि ) यानि नीतिशास्त्राणि ( नयशास्त्राणि ) तेषां पारगम् ( पारगामिनम् ) रहस्यज्ञातारमिति भावः । अतिवयसम् = अधिकाऽवस्थम्, वृद्ध मिति भावः । अग्रजन्मानं - ब्राह्मणम्, तथा च अखिलमन्त्रिमण्डलप्रधानं = अखिले ( समग्रे, मन्त्रिमण्डले ) अमात्यसमूहे, प्रधान ( मुख्यम् ), कुमारपालितनामानं = कुमारपालितो नाम ( नाम ) यस्य सः, तम् अब्रवीत् = उक्तवान् । श्रुतेति । भवद्भिः = युष्मामिः, अस्य = निकटवर्तिनः, विहङ्गमस्य = पक्षिण: शुकस्य, वर्णोच्चारणे = वर्णानाम् (स्वरव्यञ्जनाद्यक्षराणाम् ) उच्चारणे ( वचने ), स्पष्टता = स्फुटता, स्वरे च = उदात्तादिस्वरे च, मधुरता माधुर्यम्, श्रुता= आकर्णिता किम् इति प्रश्नः काक्वा व्यज्यते । वाणीसे जय शब्दका उच्चारण कर राजाको उद्देश्यकर इस आर्याको पढ़ा-(हे राजन् !) आँसुओंसे स्नान किया हुआ, हृदयस्थित शोकरूप अग्निके अति समीपस्थित, मोतियोंकी मालाको छोड़नेवाला आपके शत्रुओंकी स्त्रियोंका स्तनयुग्म मानों स्नानयुक्त और आहारका परित्यागवाले व्रतका आचरण कर रहा है"। राजाने उस आर्याको सुनकर आश्चर्य युक्त होकर हर्षके साथ निकटवर्ती, अत्यन्त बहुमूल्य सवर्णासनमें बैठे हुए, बृहस्पतिके समान संपूर्ण नीतिशास्त्रोंके पारगामी, अधिक वयवाले, ब्राह्मण और समस्त मन्त्रियोंमें मुख्य कुमारपालित नामके प्रधानमन्त्रीसे कहा-"आपने इस पक्षीकी वर्गों के उच्चारणमें स्पष्टता और स्वरमें

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172