Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 42
________________ कथामुखे-शूद्रकवर्णनम् उपजातकुतूहलस्तु राजा समीपतिनां राज्ञामवलोक्य मुखानि 'को दोषः, प्रवेश्यताम्' इत्यादिदेश । ___ अथ प्रतीहारी नरपतिकथनानन्तरमुत्थाय तां मातङ्गकुमारी प्रावेशयत् । प्रविश्य च सा नरपतिसहस्र-मध्यत्तिनमशनिभय-पुञ्जितकुलशैलमध्यगतमिव कनकशिखरिणम्, अनेकरत्नाभरण-किरण-जालकान्तरितावयवमिन्द्रायुध-सहस्र-सञ्छादिताष्टदिग्विभागमिव जलधरदिवसम्, अवलम्बितस्थूलमुक्ताकलापस्य कनकशृङ्खला-नियमितमणिदण्डिकाचतुष्टयस्य ( उदधिपक्षे-सकलमणयः, राजपक्षे = सकलश्रेष्ठवस्तूनि ), तेषाम्, उदधिः = समुद्र इव, देवः = मवान्, एकमाजनं = मुख्यपात्रम् । “रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम् ।" इति मेदिनी। “एके मुख्याऽन्यकेवलाः।" इत्यमरः । आश्चर्यभूतः = अद्भुतस्वरूपः, अयं = निकटवर्ती, विहङ्गमः = पक्षो शुकश्च । निखिलभुवनतलरत्नं = समस्तलोकतलश्रेष्ठः, इति कृत्वा = एवं विचार्य, एनं = विहङ्गमं शुकम्, आदाय, देवपादमूलं = भवच्चरणमूलम्, आयाता= आगता, अहं, देवदर्शनसुखं = भवद्विलोकनाऽऽनन्दम्, अनुभवितुं = विषयीकर्तुम्, इच्छामि = वाञ्छामि । एतत् = पूर्वोक्तं वाक्यम्, आकर्ण्य = श्रुत्वा, देवः = भवान्, प्रमाणं = कार्याऽनुष्ठाने हेतुः । इति = एवम्, उक्त्वा = अभिधाय, विरराम = विरता बभूव, मौनं जग्राहेति भावः । "व्याङपरिभ्यो रम" इति परस्मैपदम् । उपजातेति । उपजातकुतूहल: = उपजातम् ( उत्पन्नम् ) कुतूहलम् ( कौतुकम् ) यस्य सः । राजा = भूपः, शद्रकः । समीपवर्तिनां = निकटस्थानां, राज्ञां-भूपानां, मुखानि वदनानि, आलोक्यदृष्ट्वा, को दोषः = किं दूषणं, प्रवेश्यताम् = आनीयताम् इति भावः, इति =एवम्, आदिदेश = आज्ञापयामास । अथेति । अथ = राजवचनश्रवणाऽनन्तरं, प्रतीहारी= द्वारपालिका, नरपतिकथनाऽनन्तरं = राजवचनाऽनुपदम्, उत्थाय = उत्थानं कृत्वा, तां = पूर्वोक्तां, मातङ्गकुमारी = चाण्डालदारिकां प्रावेशयत् =प्रवेशम् अकारयत् । प्रविश्य चेति । प्रविश्य = प्रवेशं कृत्वा, सा=चाण्डालदारिका । "राजानम अद्राक्षीत्" इत्यत्र सम्बन्धः । राजानं विशेषयति-नरपतीत्यादिः । नरपतिसहस्रमध्यवतिनं नरपतीनां ( राज्ञाम् ) सहस्रं ( बहुसंख्या ), तन्मध्यवर्तिनं ( तदन्तरस्थितम् ), तत्रोपमानं दर्शयति-अशनिभयपुञ्जितकुलशैलमध्यगतम् = अशनेः ( वज्रात् ) यत् भयं ( भोतिः ) तत: पुजिताः ( एकत्र स्थिताः ) ये कुलशैला: ( महेन्द्रादयः कुलपर्वता: ) तेषां मध्यगतम् ( अन्तरस्थितम् ), कनकशिखरिणम् इव = सुमेरुपर्वतम् इव । उपमाऽलङ्कारः । एवं च अनेकरत्नाऽऽभरणेत्यादिः = अनेकानि (बहुनि ) यानि रत्नाऽऽभरणानि ( मण्यलङ्काराः ) तेषां यत् किरणजालक ( रश्मिसमूहः ) तेन अन्तरिता: ( आच्छादिताः) अवयवा: ( अङ्गानि ) यस्य सः, तम् । उपमानं निर्दिशति—इन्द्रायुधसहस्रसञ्छादिताऽष्टदिग्विभागम् - इन्द्रायुधसहस्रेण ( शक्रधनुःसमुदायेन ) सञ्छादिताः ( आवृता: ) अष्टौ ( अष्टसंख्यकाः ) दिग्विभागाः चमत्कारपूर्ण यह पक्षी ( तोता ) भी सकल भूतलका रत्न है ऐसा विचार कर इसको लेकर महाराजके चरणमूलमें आई हुई मैं आपके दर्शनसुखका अनुभव करना चाहती हूँ, “यह सुनकर महाराज आज्ञाके लिए प्रमाण है" ऐसा कह कर चुप हो गई। राजाने उत्कण्ठित होकर निकटमें विराजमान राजाओंका मुँह देखकर "क्या दोष है ? उसे प्रवेश कराओ।" ऐसी आज्ञा दी। राजाके भाषणके अनन्तर द्वारपालिकाने उठकर उस चाण्डालकुमारीको प्रवेश कराया। उसने प्रवेश कर हजारों राजाओंके बीचमें रहे हुए राजा (शूद्रक ) को वज्रके भयसे इकट्ठे हुए महेन्द्र आदि कुलपर्वतोंके मध्यमें स्थित सुमेरुपर्वतके समान, अनेक रत्नोंसे खचित भूषणोंके किरणसमूहसे आच्छादित अवयववाले राजाको—जिसमें हजारों इन्द्रधनुषोंसे आच्छादित आठ दिशाएँ होती हैं ऐसे वर्षा ऋतुके दिनके सदृश,

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172