Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कादम्बरी
आलोक्य च सा दूरस्थितैव प्रचलितरत्नवलयेन रक्त - कुवलयदल - कोमलेन पाणिना जर्जरितमुखभागां वेणुलतामादाय नरपतिप्रतिबोधनार्थं सकृत् सभाकुट्टिममाजघान येन सकलमेव तद् राजकम् एकपदे वनकरियूथमिव तालशब्देन युगपदावलितवदनमवनिपालमुखादाकृष्य चक्षुस्तदभिमुखमासीत् ।
३०
=
इत्यत्र विरोधाभासः, तत्परिरहारस्तु -- महादोषं महान्तौ ( दीघौं ) दोषौ ( बाहू ) यस्य, तम् । सकलगुणाऽधिष्ठानं = सकलाः ( समग्रा: ) ये गुणा: ( दयादाक्षिण्यादयः), तेषाम् अधिष्ठानम् = आधारस्थानम् । “भुजबाहू प्रवेष्टोदो : " इत्यमरः । कुपतिम् अपि कलत्रवल्लभम् अत्र विरोधाभासः । परिहारस्तु-कुपति: = को: ( पृथिव्याः ) पति: ( स्वामी ) तम् । कलत्रवल्लभं = कलत्रस्य (भार्यायाः ), बल्लभः ( प्रियः ), तम् । " गोत्रा कुः पृथिवी पृथ्वी" इति "कलत्रं श्रोणिभार्ययोः" इति चामरः । अविरतप्रवृत्तदानम् = अविरतं ( निरन्तं यथा तथा ) प्रवृत्तं ( निरूपणम् ) दानं ( मदजलम् ) यस्य, तं, तथाऽपि, अमदं = मदजल रहितम्, अत्राऽपि विरोधाभासः, विरोधपरिहारस्तु, अविरतप्रवृत्तदानं = अविरतं प्रवृत्तं दानं (वितरणम्) यस्य सः, तम् दानशीलम् इति भावः । तथाऽपि अमदं = गर्वरहितमिति भावः । " मदो रेतसि कस्तूर्यां, गवें हर्षेभदानयोः ।" इति मेदिनो । अत्यन्तेति । अत्यन्तशुद्धस्वभावम् = अत्यन्तं ( साऽतिशयम् ) शुद्ध : ( निर्मल: ) स्वभाव: ( प्रकृतिः ) यस्य, तम् अपि कृष्णचरितं = कृष्णं ( श्यामं, मलिनम् ) चरितं ( चरित्रम् ) यस्य तम् । अत्र विरोधाऽऽमासः । विरोधपरिहारस्तु — कृष्णचरितं = कृष्णस्य ( वासुदेवस्य ) इव चरितं ( चरित्रम्, आचार: ) यस्य तम् । “कृष्णे नीलाऽसितश्यामका लश्यामलमेचकाः ।" इति "विष्णुर्नारायणः कृष्ण" इति चामरः । अकरम् = हस्तरहितम्, अविद्यमानः करो यस्य तम् अपि हस्तस्थितभुवनतलं = हस्ते ( करे ) स्थितम्, ( विद्यमानम् ) भुवनतलं ( भूमण्डलम् ) यस्य, तम् । अत्राऽपि विरोधः तत्परिहारस्तु — अकरम् = अविद्यमानः करः ( अन्यस्मै दीयमानो मागः ) यस्य सः, राजमण्डलाऽधिपतित्वादिति भावः । “बलिहस्तांऽशवः कराः ।" इत्यमरः । विरोधाभासोऽलङ्कारः । तादृशं राजानं = भूपालं शूद्रकम् । अद्राक्षीत् = दृष्टवती ।
=
राजानमिति शेषः । दूरस्थिता भावः । प्रचलितरत्नवलयेन = यस्मात् तेन । रक्तकुवलयदलतदिव कोमलं ( मृदुलम् ), तेन
आलोक्येति – सा = चाण्डालकन्यका, आलोक्य = दृष्ट्वा एव = विप्रकृष्ट प्रदेशे विद्यमाना एव चाण्डालजात्युत्पन्नत्वादिति प्रचलितं ( किञ्चिदपसृतम् ), रत्नवलयं ( मणिखचितकटकम् ) कोमलेन = रक्तं ( लोहितम् ) यत् कुवलयदलम् ( उत्पलपत्त्रम् ), अत्र लुप्तोपमा । तादृशेन पाणिना = हस्तेन । जर्जरितमुख भागां = जर्जरित: ( जीर्णः ) मुखमाग: ( अग्रप्रदेशः ) यस्याः, ताम् । तादृशीं वेणुलतां = वंशयष्टिम्, आदाय = गृहीत्वा, नरपतिप्रतिबोधनाऽयं = नरपतेः ( राज्ञः शूद्रकस्य ) प्रतिबोधनाऽयं ( सम्मुखीकरणाऽर्थम् ) समाकुट्टिमं = परिषन्निबद्धभुवम्, “कुट्टिमोऽस्त्री निबद्धा भूः" इत्यमरः । सकृत् = एकबारम्, आजघान = ताडितवती ।
( विरोधमें—कुत्सित स्वामी, परिहारमें पृथ्वी के स्वामी ) होकर भी पत्नियों के प्यारे, निरन्तरदान ( विरोध में— मदजल, परिहारमें — विवरण) करनेपर भी मद ( विरोध में - मदजल, परिहारमें - गवं ) से रहित, अतिशय शुद्ध स्वभाववाले रोकर भी कृष्णचरित ( विरोध में - मलिन चरित्रवाले, परिहार में - कृष्णके समान चरित्रवाले ), अकर ( विरोधमें कर = हाथ ) वाले, परिहार में - सर्वस्वतन्त्र होने से किसी दूसरे राजाको कर = भाग नही देनेवाले संपूर्ण भूतलको अपने हाथमें रखनेवाले ) ऐसे राजाको देखा ।
राजाको देखकर दूरमें रहकर ही उसने हिलनेवाले रत्नकङ्कणवाले रक्तकमलके पत्रके समान कोमल हाथसे जीर्ण अग्रभागवाली बाँसकी छड़ीको लेकर राजाओं का ध्यान खीचने के लिए सभाके फर्शको एकबार ताडन किया, जिससे समस्त राजमण्डल तत्क्षण जैसे तालवाद्यके शब्दसे जङ्गली हाथियोंका समूह आकृष्ट होता है वैसे ह एक ही वार मुँह मोड़कर राजाकी ओरसे नेत्रोंको हटाकर उस ( चाण्डालकन्या ) के सम्मुख हो गये ।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172