Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे-शूद्रकवर्णनम्
३१ अवनिपतिस्तु 'दूरादालोकय' इत्यभिधाय प्रतीहा- निदिश्यमानां तां वयःपरिणामशुभ्र-शिरसा रक्तनराजीवनेत्रापाङ्गेनानवरत-कृत-व्यायामतया यौवनापगमेऽप्यशिथिलशरीरसन्धिना सत्यपि मातङ्गत्वे नातिनृशंसाकृतिना अनुगृहोतार्यवेशेन शुभ्र-वाससा पुरुषेणाधिष्ठितपुरोभागाम्, आकुलाकुल-काकपक्षधारिणा कनक-शलाका निम्मितमप्यन्तर्गत-शुकप्रभाश्यामा. यमानं मरकतमयमिव पञ्जरमुबहता चण्डालदारकेणानुगम्यमानाम् असुर-गृहोतामृतापहरणयेन = आघातेन, सकलं = समस्तम्, एव, तत् राजकं =राजसमूहः, "गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स मनुष्याऽजादुञ्" इति वुञ् । एकपदे = तत्क्षणे, तालशब्देन = वाद्य विशेषध्वनिना, वनकरियूथम् = वनकरिणाम् ( अरण्यगजानाम् ) यूथम् ( समूहः ), इव तेन = पूर्वोक्तेन वेणुलताध्वनिना = वंशयष्टिशब्देन, युगपत् = एकस्मिन् काले, आवलितवदनम् = आवलितं (परावर्तितम् ) वदनं ( मुखं ) येन तत्, तादृशं सत्, अवनिपालमुखा = राजवदनात्, आकृष्य = आकर्षणं कृत्वा, चक्षुः = नेत्र, तदभिमुख = चाण्डालकन्यासंमुखम्, आसोत् = अभवत्, उपमालङ्कारः ।
अवनियतिस्त्विति । अवनिपतिः = भूपतिः, शूद्रकः । अनिमिषलोचनः तां ददर्शति सम्बन्धः । दूरात् = विप्रकृष्टप्रदेशात्, आलोकय = दर्शय, शुकमिति शेषः । इति = एवम्, अभिधाय = उक्त्वा, चाण्डालकन्यकामिति भावः । चाण्डालकन्यकां विशेषयति-प्रतीहार्येति । अनिमिषलोचनः = अनिमिषे ( निमेषव्यापाररहिते ) लोचने ( नयने ) यस्य सः । प्रतीहार्या = द्वारपालिकया, निर्दिश्यमानं = निर्देशविषयोक्रियमाणां, तां = चाण्डालकन्यकां, वयः परिणामशुभ्रशिरसा= वयसः ( अवस्थायाः ) परिणामेन ( परिवर्तनेन ) वार्धक्येनेति भावः । शुभ्रं ( शुक्लम् ) शिरः ( मस्तकः ) यस्य सः, तेन, इदं चाण्डालकन्यकासहचरविशेषणम्, एषं परत्राऽपि । तथा-रक्तराजीवनेत्राऽपाङ्गेन = रक्तराजीवे ( अरुणकमले ) इव, नेत्राऽपाङ्गौ ( नयनप्रान्तौ ) यस्य, तेन लुप्तोपमा। अनवरतकृतव्यायामतया = अनवरतं ( निरन्तरम् ), कृतः (विहित: ) व्यायामः (परिश्रमः, स्वास्थ्यरक्षाऽर्थमिति शेषः ), येन सः, तस्य भावस्तत्ता, तया हेतुना । यौवनाऽपग मे = यौवनस्य (तारुण्यस्य), अपगमे (निवृत्तौ ) अपि, अशिथिलशरीरसन्धितया = अशिथिला: ( अश्लथाः, दृढा इति भावः ) शरीरस्य ( देहस्य ) सन्धयः ( धातुनामस्थ्यादीनां च बन्धाः ) यस्य सः, तेन । मातङ्गत्वे = चाण्डालत्वे, सति अपि = विद्यमाने अपि । नातिनशंसाऽऽकृतिना = नाऽति नशंसा ( नाऽतिकरा ) आकृतिः ( आकार: ) यस्य, तेन । अनुगृहीताऽऽर्यवेषेण = अनुगृहीतः ( अनुग्रहविषयीकृतः, स्वीकृत इति भावः ) आर्यस्य (सभ्यस्य) वेषः (नेपथ्यम् ) येन सः तेन । शुभ्रवाससा=शुभ्रं ( शुक्लम् ) वासः ( वस्त्रम् ) यस्य, तेन । तादृशेन पुरुषेण = पुंसा, अधिष्ठितपुरोभागाम् = अधिष्ठितः (आश्रितः ) पुरोभागः ( अग्रभागः ) यस्याः, ताम् ।
आकुलाकुलेति । आकुलाऽऽकुलकाकपक्षधारिणा = आकुलाऽऽकुल: ( इतस्ततो विक्षिप्त: ) यः काकपक्षः (शिखण्डक: ), तं धारयतीति तच्छील:, तेन । "चाण्डालदारकेण" इत्यस्य विशेषणम् । कनकश लाकानिर्मितं = कनकस्य ( सुवर्णस्य ) याः शलाका: ( इषीकाः ) ताभिः निमितम् (रचितम्), अपि, बहिः पोतमपीति भावः। अन्तर्गतशुकप्रभाश्यामायमानम् = अन्तर्गत: ( अन्तःस्थितः ) यः शुकः ( कोरः), तस्य प्रमया ( कान्त्या ) श्यामायमानम् (श्यामवद् दृश्यमानम् ) अत एव–मरकतमयम् = गारुत्मतमयम्, इव, श्याममयमिवेति भावः । तादृशं पञ्जरं = पिञ्जरं, शुकस्वासपात्रमिति भाव: । उद्वहता =धारयता, चाण्डालदारकेण = अन्त्यजपुत्रेण, अनुगम्यमानाम् = अनुस्रियमाणाम् ।
“दूरसे देखो" ऐसा कहकर द्वारपालिकासे निर्देशित, अवस्थाके परिपक्व होनेसे सफेद शिरवाले, रक्तकमलोंके समान नेत्रों के कोणोंसे युक्त, निरन्तर व्यायाम ( कसरत ) करनेसे जवानीके बीतनेपर भी दृढ़ शरीर सन्धियोंसे युक्त, चाण्डाल होनेपर भी जिसका आकार अधिक कर नहीं था, सभ्य पुरुपके वेशको धारण कर नेवाले, सफे वस्त्रोंवाले पुरुषको आगे करनेवाली, चञ्चल केशोंको धारण करनेवाले, मुवर्णकी शलाकासे निर्मित होकर भी

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172