Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२८
कादम्बरी उन्नत-घोणम्, उत्फुल्लपुण्डरीक-नेत्रम्, अमलकलधौतपट्टायतम्, अष्टमीचन्द्र-शकलाकारम्, अशेष-भुवन-राज्याभिषेकसलिलपूतम्, ऊर्णासनाथं ललाटदेशमुद्वहन्तम्, आमोदि-मालतीकुसुमशेखरम् उषसिशिखर-पर्य्यस्ततारकापुञ्जमिव पश्चिमाचलम्, आभरण-प्रभापिशङ्गिताणतया लग्न-हर-हताशमिव मकरध्वजम्, आसन्नत्तिनीभिः सर्वतः सेवार्थमागताभिरिव दिग्वधूभिर्वारविलासिनोभिः परिवृतम्, अमल-मणिकुट्टिमसंक्रान्त-सकल-देह-प्रतिविम्बतया पतिप्रेम्णा कटक इवे' त्यत्रोपमा, “..'शङ्कामुपजनयता' इत्यत्र भ्रान्तिमान्, “भुजङ्गद्वयेनेवे'' त्यत्रोत्प्रेक्षा चंतेषामङ्गाङ्गिभावेन सङ्करः ।।
राज्ञः पुनर्विशेषणान्तराणि प्रदर्शयति-ईषदालम्बीत्यादिः । ईषदालम्बिकर्णोत्पलम् = ईषदालम्बिनी ( किञ्चिल्लम्बमाने ) कर्णोत्पले (श्रवणकुवलये ) यस्य तं, तादृशम् । उन्नतघोणम् = उन्नता (उच्चा) घोणा ( नासिका ) यस्य, तम् । “घोणा नासा च नासिका।" इत्यमरः । उत्फुल्लपुण्डरीकनेत्रम् = उत्फुल्ले ( विकसिते ) पुण्डरीके ( श्वेतकमले ) इव नेत्रे ( नयने ) यस्य, तम् । अत्र लुप्तोपमा।
ललाटदेशं विशेषयति-अमलेत्यादिः । अमलकलधौतपट्टाऽऽयतम् = अमल: (निर्मल: ) यः कलधौतपट्टः ( सुवर्णपीठम् ) स इव आयतः ( विस्तीर्णः ), तम् । अष्टमीचन्द्र शकलाऽऽकारम् = अष्टमीचन्द्रस्य ( अष्टम्युदितचन्द्रमसः ) यत् शकलं ( खण्डम् ) तस्य इव आकारः ( आकृतिः ) यस्य, तम् । द्वे लुप्तोपमे। अशेषभुवनराज्याभिषेकपूतम् = अशेषाणि ( समस्तानि ) यानि भुवनानि ( लोकाः ), तेषां राज्यम् ( आधिपत्यम् ) तस्य अभिषेकः ( मङ्गलस्नानम् ) तेन पूतः ( पवित्रः )। तम् । एवं च ऊर्णासनाथं = भ्रमध्यावर्तयुक्तं, तादृशं ललाटदेशं = मालप्रदेशम्, उद्वहन्तं = धारयन्तम् ।।
पुनरपि राजानं विशेषयति-आमोदि-मालतीकुसुमशेखरम् = आमोदीनि (अतिसौरभयुक्तानि ) यानि मालतीकुसुमानि ( जातिपुष्पाणि ) तानि शेखराः (शिरोभूषणानि ) यस्य सः, तम् । "सुमना मालती जातिः" इत्यमरः । अतः उपसि-प्रातःकाले, शिखरपर्यस्ततारकापुज%D शिखरे (शृङ्गे) पर्यस्ताः ( पतिताः ) तारकापुजाः ( नक्षत्रसमूहाः ) यस्मिन्, तम् । तादृशं पश्चिमाञ्चलम् ( अस्तपर्वतम् ) इव । अत्रोपमाऽलङ्कारः ।।
मदनसादृश्यं प्रदर्शयति-आभरणेति । आभरणप्रभापिशङ्गिताऽङ्गतया आभरणानां ( भूषणानाम् ) या प्रभा ( कान्तिः ) तया पिशङ्गितानि ( पिङ्गलितानि ) अङ्गानि ( देहाऽवयवाः ) यस्य सः, तस्य भावस्तत्ता तया । लग्नहरहुताऽश-लग्नः ( सक्तः ) हरस्य (महादेवस्य ) हुताशः ( नयनाऽनल:) यस्मिन्, तम् । तादृशं मकरध्वज = कामदेवम्, इव । अत्रोपमाऽलङ्कारः ।
आसन्नेति । आसन्नवतिनीभिः = निकटस्थिताभिः, सर्वतः =परितः, सेवाऽथ = परिचर्याऽर्थम, आगताभिः = आयाताभिः, अत एव दिग्वधूभिः = दिशः ( काष्ठाः ) एव वध्वः (प्रमदाः ), ताभि: इव, वारविलासिनीभिः = वाराङ्गनाभिः, परिवृतं = परिवेष्टितम् । दिग्वधूभिः इव" इह रूपकमुत्प्रेक्षा च, तथा च तयोरेकाश्रयस्थितेः सङ्कराऽलङ्कारः ।।
अमलात । अमलमणीत्यादिः = अमला: (निर्मलाः ) ये मणयः ( रत्नानि ) तत्खचिता ये कुट्टिमाः (निबद्धभूमयः ) तेषु संक्रान्तं ( संलग्नम् ) सकलदेहप्रतिबिम्ब ( समस्तशरीरप्रतिच्छाया )
रहे थे। उन्नत नासिकावाले, विकसित श्वेत कमलोंके समान नेत्रोंवाले, निर्मल सुवर्णपट्टके समान विशाल, अष्टमीके अर्धचन्द्र के समान आकारवाले, समस्त भूमण्डलके राज्याभिषेकसे पवित्र, भौंहोंके बीचमें ऊर्णा ( रोमके आवर्त ) से युक्त ललाटको धारण करनेवाले, सुगन्धित चमेलीके फूलोंको शिरोभूषण करनेवाले प्रातःकालमें शिखरमें पड़े हुए नक्षत्रोंके समूहवाले अस्तपर्वतके समान, भूषणोंकी कान्तिसे पीले अङ्ग होनेसे शिवजीके नेत्राऽग्निसे युक्त कामदेवके सदृश, निकटमें रहनेवाली सेवाके लिए आई हुई दिशारूप वधूओंके समान वेश्याओंसे घिरे हुए, निर्मल रत्नोंके फर्शमें

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172