________________
कथामुखे—शूद्रकवर्णनम्
देशे, दुकूले वसानम्, अतिसुरभि चन्दनानुलेपन-ध्वलितोरःस्थलम् उपरि विन्यस्त-कुङ्कुमस्थासकम्, अन्तरान्तरानिपतितबालातपच्छेदमिव कैलाशशिखरिणम्, अपर-शशि-शङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्, अतिचपल-राज- लक्ष्मीबन्धनिगड-शङ्कामुपजनयतेन्द्रमणिकेयूरयुग्मेन मलयज-रस-गन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितबाहुयुगलम् ईषदालम्बि - कर्णोत्पलम्,
२७
एव भृदितौ ( व्यापादितौ ) यौ मधुकैटभौ ( दैत्यविशेषौ ) तयोः रुधिरम् ( रक्तम् ) इव अरुणं ( रक्तवर्णम् ), तेन तादृशेन ऊरुयुगलेन = सक्थियुगेन, विराजमानं = शोभमानं हरिम् = मधुसूदनम्, इव ।
राजधारित दुकूले विशिनष्टि - अमृतफेनेति । अमृतफेनधवले = पीयूषडिण्डीरशुभ्रे, गोरोचनालिखितहंसमिथुनसनाथपर्यन्ते = गोरोचनया ( गोपित्तेन ) लिखितानि (चित्रितानि ) यानि हंस मिथुनानि ( चक्राङ्गयुगलानि ) तैः सनाथा : ( सहिताः ) पर्यन्ता: प्रान्तभागाः ) ययोस्ते, चारुचामरवायुप्रनर्तिताऽन्तदेशे = चारुः ( मनोहर:, सुखस्पर्श इति भावः ) यश्चामरवायु: ( प्रकीर्णकपवनः ), तेन प्रवर्तिताः ( आन्दोलिता: ) अन्तदेशा: ( प्रान्तभागाः ) ययोस्ते, तादृशे दुकूले = क्षौमे, वसानं = धारयन्तम् । “अमृतफेनधवले" इत्यत्र लुप्तोपमा ।
अतीति । अतिसुरभीत्यादिः = अतिसुरभि: ( अतिसुगन्धयुक्तः ) यः चन्दनः ( मलयजः ) तस्य अनुलेपनं ( विलेपनम् ), तेन धवलितम् ( शुभ्रीकृतम् ) उरःस्थलं ( वक्ष:स्थलम् यस्य तम् । उपरिविन्यस्तकुङ्कुमस्थासकम् = उपरि ( वक्षःस्थलोर्ध्वभागे ) विन्यस्ता: ( विहिताः ) कुङ्कुमस्य ( केसरस्य ) स्थासका: ( विलेपनानि ) यस्य, तम् । " चर्चा तु चाचिक्यं स्थासकः । " इत्यमरः । अन्तराऽन्तरानिपतितबालाऽऽतपच्छेदम् = अन्तराऽन्तरा ( मध्ये मध्ये ) निपतिता: ( पर्यस्ताः ) बालाSsaपस्य ( नवोदितसूर्यप्रकाशस्य ) छेदा: ( खण्डा : ) यस्य तं तादृशं कैलासशिखरिणम् = कैलासपर्वतम् इव । उपमाऽऽलङ्कारः ।
भूयो नृपं विशिनष्टि — अपरेति । अपरशशिशङ्कया = अपर : ( अन्यः ) यः शशी ( चन्द्रः ), तस्य शङ्का ( सन्देहः, भ्रान्तिरिति भावः तया । नक्षत्रमालया = तारापङ्क्त्या, इव, हारलतया = मुक्तामालावल्ल्या, कृतमुखपरिवेषं = कृत: ( विहित ) मुखस्य ( वदनस्य ) परिवेष : ( परिधिः ), यस्य तम् । अत्र मुखे शशिभ्रान्त्या भ्रान्तिमान्, "नक्षत्रमालया इवे" त्यत्रोत्प्रेक्षा, तथा चानयोरङ्गाङ्गभावेनसङ्करः । अनेन हारलताया अत्यन्तनैर्मल्यं मुखस्य च चन्द्रसाम्यं सूचितम् ।
केयूरयुग्मं विशिनष्टि —अतिचपलेति । अतिचपल राजलक्ष्मीत्यादिः = अतिचपला ( अधिकचञ्चला ) या राजलक्ष्मी: ( राजश्रीः ) तस्या बन्ध: ( बन्धनम् ) तदर्थं यो निगड : ( शृङ्खला ), स कटक: ( वलय ) इव, तस्य शङ्का ( भ्रान्तिः ), ताम्, उपजनयता = प्रकाशयता इन्द्रमणिकेयूरयुग्मेन = इन्द्रमणिखचितम् ( इन्द्रनीलरत्नखचितम् ) यत् केयूरयुग्मम् ( अङ्गदयुगलम् ), तेन । अतः मलयजरसगन्धलुब्धेन = मलयजरस: ( चन्दनद्रव: ) तस्य गन्धः ( सौरभम् ) तस्मिन् लुब्धेन ( लोलुपेन ) । भुजङ्गद्वयेन = सर्पयुग्मेन, इव वेष्टितबादुयुगलं = वेष्टितम् ( आवृतम् ) बाहुयुगलं ( भुजयुग्मम् ) यस्य तम् । " वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ।" इत्यमरः । अत्र “निगड :
फेनके समान उज्वल गोरोचनसे लिखे गये हंसके जोड़ोंके चित्रसे युक्त प्रान्तभागवाले और चेंबर की हवा से जिसका प्रान्तभाग हिल रहा है ऐसे रेशमी वस्त्र ( उत्तरीय और अधरीय) को धारण करनेवाले, जिनका वक्षःस्थल ( छाती ) अत्यन्त सुगन्धित चन्दनके अनुलेपनसे सफेद हो गया है । छातीके ऊपर केसर के विलेपनसे युक्त, मध्य में बालसूर्य के प्रकाश से युक्त कैलाशपर्वतके समान, उनके गलेमें हारलता दूसरे चन्द्रकी शङ्कासे मानों नक्षत्रमाला है। ऐसी प्रतीत होती थी । अत्यन्त चञ्चल राजलक्ष्मी के बन्धनकी शृङ्खलाकी शङ्काको उत्पन्न करनेवाले इन्द्र नीलमणिके बाजूबन्दोंसे—चन्दनरसकें गन्धसे लुब्ध मानों दो सर्पोंसे - वेष्टित दो बाहुबाले थे। जिनके कानमें कमल लटक