________________
कादम्बरी गगन-सिन्धु-फेन-पटल-पाण्डुरस्य नातिमहतो दुकूलवितानस्याधस्तादिन्दुकान्तमणिपर्यङ्किकानिषण्णम्, उद्ध्यमान-सुवर्णदण्डचामरकलापम्, उन्मयूखमुख-कान्तिविजय-पराभवप्रणते शशिनीव स्फटिकपादपीठे विन्यस्तवामपादम्, इन्द्रनीलमणि-कुट्टिम-प्रभासम्पर्कश्यामायमानैः प्रणत-रिपु-निःश्वासमलिनीकृतैरिव चरण-नखमयूखजालरुपशोभमानम्, आसनोल्लसितपद्मराग-किरण-पाटलोकृतेनाचिरमृदितमधु-कैटभ-रुधिरारुणेन हरिमिवोरुयुगलेन विराजमानम्, अमृतफेन-धवले गोरोचना-लिखित-हंस-मिथुन-सनाथ-पर्यन्ते चारुचामरवायुप्रतितान्त
(कप्रदेशाः ) यस्मिन्, तम् । तादृशं जलधरदिवसम् = वर्षर्तुदिनम् इव, उपमा । अवलम्बितस्थलमुक्ताकलापस्प = अवलम्बिता: ( आलम्बिताः ) स्थलाः ( विपुलाः) मुक्ताकलापाः ( मौक्तिकसमूहाः ) यस्मिन्, तस्य "दुकूलवितानस्य" इत्यस्य विशेषणम्, एवं परत्राऽपि । कनकशृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य = कनकस्य ( सुवर्णस्य ) शृङ्खला: ( वन्धनरज्जव: ) ताभिः नियमितम् ( निबद्धम् ) मणिदण्डिकाचतुष्टयं ( रत्नखचितयष्टिचतुष्कम् ) यस्मिन्, तस्य । गगनसिन्धुफेनपटलपाण्डुरस्य = गगनसिन्धोः ( आकाशगङ्गाया: ) यत् फेनपटलं (डिण्डीरसमूहः ) तदिव पाण्डुरं ( शुभ्रम् ), तस्य । "डिण्डीरोऽब्धिकफः फेन' इत्यमरः । तादृशस्य नातिमहतः = नाऽधिकविशालस्य, दुकूलवितानस्य = क्षोममयोल्लोचस्य, अपस्तात् = निम्नस्थाने, इन्दुकान्तपङ्किकानिषण्णम् = इन्दुकान्तानां (चन्द्रकान्तमणीनां ) या पङ्किका ( अल्पः पर्यङ्गः ), तत्र निषण्णम् ( उपविष्टम् )। लुप्तोपमाऽलङ्कारः । उद्धयमानसुवर्णदण्डचामरकलापम् = उद्धयमानः ( सेवकः कम्प्यमानः, बोज्यमान इति भावः ) सुवर्णदण्डः ( कनकदण्डयुक्तः ) चामरकलापः (प्रकीर्णकसमुहः ) यस्य, तम् । उन्मयूखमुखकान्तिविजयपराभवप्रणते = उन्मयूखम् (ऊर्ध्वगामिकिरणयुक्तम् ) यत् मुखं ( वदनम् ) तस्य कान्ति: ( शोभा) तया यः विजयः ( जय: ) तेन यः पराभव: ( तिरस्कारः ), तेन हेतुना प्रणतः ( अवनतः, पादलग्न इति भावः )। "परामवः । तिरस्कारे विनाशे च पुंसि" इति मेदिनी। तादृशे शशिनि इव = चन्द्र इव, स्फटिकपादपोठे = काचमणिचरणविन्यासस्थाने, विन्यस्तवामपादं = विन्यस्तः ( स्थापितः ) वामपादः ( सव्यचरणः ) येन, तम् । राज्ञश्चरणनखकिरणान्विशेषयति–इन्द्रनोलेति । इन्द्रनीलमणिकुट्टिमप्रमासम्पर्कश्यामायमानः = इन्द्रनीलमणीनां (मरकतरत्नानाम् ) या कुट्टिमप्रभा (निबद्धभूकान्तिः ), तस्याः सम्पर्कः ( संमिश्रणम् ), तेन श्यामायमानानि ( श्यामवदाचरन्ति ), तैः । प्रणतरिपनिःश्वासमलिनीकृतः = प्रणताः ( अवनताः, पराजयनेति शेषः ), ये रिपवः ( शत्रवः ) तेषां नि:श्वासाः ( ऊर्ध्वश्वासाः ) तैः मलिनीकृतानि ( मलीमसोकृतानि ), तैः इव, तादृशः चरणनखमयुखजालैः = चरणयोः ( पादयोः ) ये नखमयूखा: ( नखरकिरणाः ), तेषां जालानि ( समूहाः ), तै: उपशोभमानम् = विराजमानम् ।
ऊरुयगलं विशिनष्टि --आसनोल्लसितेति । आसनोल्लसितपद्मरागकिरणपाटलीकृतेन = आसने ( उपवेशनस्थाने ) उल्लसिताः ( उद्दीप्ताः ) ये पद्मरागाः (लोहितमणयः) तेषां किरणा: ( मयूखा: ), तैः पाटलीकृतेन ( श्वेतरक्तीकृतेन ), अतः अचिरमृदितमधुकैटभरुधिराऽरुणेन = अचिरम् ( अल्पकालम् )
-
-
----
-----
लटकाई गई बड़े-बड़े मोतियोंकी मालाओंसे युक्त, जिसमें मणिखचित चार दण्डियाँ सोनेकी जंजीरोंसे बाँधी गई है, आकाशगङ्गाके फेनोंके समान सफेद, मध्यम प्रमाणवाले रेशमी वस्त्रके चंदवेके नीचे चन्द्रकान्त रत्नों की छोटीसी पलंगमे बैठे हुए, जिनको सुवर्णदण्डवाले चामर डुलाये जा रहे हैं, ऊपर जानेवाली किरणोंसे युक्त मुखकान्तियोंसे तिरस्कार होनेसे झुके हुए चन्द्रके समान स्फटिकमय चरणपीठ ( पाँवदान ) में बाएँ चरणको रखनेवाले, नीलम जड़ी हुई निबद्ध भूमिकी कान्तिके सम्पकसे नीले होनेवाले, झुके हुए शत्रुओंके निःश्वाससे मलिन किये गयेके समान चरण नखोंके किरणसमूहांसे शोभित, आसन-स्थानमें उद्दीप्त पद्मराग रत्नोंकी किरणोंसे लाल बनाये गये अल्पसमयमें ही मारे गये मधु और कैटभ दैत्यके रक्तसे लाल वर्णवाले ऊरु ओसे विष्णुके समान शोभित, अमृतक