Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कथामुखे – शूद्रकवर्णनम्
२१
तस्य चातिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति स्त्रैणमाकलयतः प्रथमे वयसि वर्त्तमानस्यापि रूपवतोऽपि सन्तानार्थिभिरमात्यैरपेक्षितस्यापि सुरतसुखस्योपरि द्वेष इवासीत् ।
सत्यपि रूपविलासोपहसित - रतिविभ्रमे लावण्यवति विनयवत्यन्वयवति हृदयहारिणि चावरोधजने, स कदाचिदनवरत दोलायमान - रत्नवलयो घर्घरिकास्फालन - प्रकम्प - झणझणायमान - मणिकर्णपूरः स्वयमारब्धमृदङ्गवाद्यः सङ्गीतकप्रसङ्गेन, कदाचिदविरल-विमुक्तशरासार-शून्यीकृतकाननो मृगयाव्यापारेण, कदाचिदाबद्ध विदग्धमण्डलः काव्यप्रबन्धरच
तस्य चेति - अतिविजिगीषुतया = अतिशयविजयाऽभिलाषितया महासत्त्वतया = महत् ( अधिकम् ) सत्त्वम् ( सत्त्वगुणः ) यस्य सः, तस्य भावस्तत्ता तया च । स्त्रैणं = स्त्रीसमूहं तृणम् इव = यवसम् इव । लघुवृत्ति = लघ्वो ( तुच्छा ) वृत्ति: ( वर्तनम् ) यस्य तत् । आकलयतः - विचारयतः, प्रथमे == आद्ये, वयसि अवस्थायां, वर्तमानस्य = विद्यमानस्य, अपि, रूपवतः = सौन्दर्यसम्पन्नस्य, अपि, सन्तानाऽथिभिः : = सन्तानम् ( अपत्यम् ) अर्थयन्ते ( उपयाचन्ते ) तच्छीलाः तैः । तादृशैः अमात्यः = मन्त्रिभिः, अपेक्षितस्य = अभीष्टस्य अपि । तस्य = राज्ञः शूद्रकस्य । अथाऽवरोधजनं विशेषयतिसस्यपीति । रूपविलासोपहमितरतिविभ्रमे = रूपं ( सौन्दर्यम् ), विलासा : ( विलसनानि क्रीडा इति भावः), तै: उपहसिताः ( हास्यविषयीकृताः ), रते ( कामप्रियायाः ) विभ्रमा: ( शृङ्गारचेष्टा: ) येन, तस्मिन्, लावण्यवति = सौन्दर्याऽतिशयसम्पन्न, विनयवति = अभ्युत्थानादिशीलयुक्ते, अन्वयवति = महाकुलसम्पत्रे, हृदयहारिणि = मनोहरणशीले, तादृशे अवरोधजने = अन्तःपुरस्थस्त्रीसमूहे, सति अपि = विद्यमाने अपि सुरतसुखस्य उपरि = कामक्रीडाऽऽनन्दस्य विषये द्वेषः = अप्रीतिः, इव, आसीत् [ = अभवत् । अत्र सुरतसुखे द्वेषस्य हेतुं विनाऽपि तस्योत्पत्तेः विभावना, अथवा सुरतस्य हेताबरोधजने सत्यपि सुरतरूपफलाऽभावाद्विशेषोक्तिरित्यनयोः सन्देहसङ्करः, तृणमिवेत्यत्रोपमा च तथा चंतयोः सङ्करः ।
स कदाचिदिति । सः = शूद्रकः, कदाचित् = जातुचित् समये, संगीतकप्रसङ्गेन = गोतवाद्याद्यवसरेण, “दिवसम् अनैषीत्" इत्यत्र सम्बन्धः एवं परत्राऽपि । अनवरतदोलायमान रत्नवलयः = अनवरतं ( निरन्तम् ) दोलायमाने ( दोलावत् आचरिते, उभयतः संचलिते इति भावः ) रत्नवलये ( मणिखचितकङ्कणे ) यस्य सः । घर्घंरिकाऽऽस्फालनप्रकम्पझणझणायमानमणिकर्णपूरः = : घर्घंरिका ( वाद्यविशेष: ), तस्या आस्फालनं ( ताडनं, वादनमितिभावः ) तेन झणझणायमानौ ( झणझणरूपशब्दं कुर्वन्ती ) मणिकर्णपूरौ ( रत्नखचितकर्णाऽलङ्कारौ ) यस्य सः । स्वयम् = आत्मना, आरब्धमृदङ्गवाद्यः = आरब्धम् ( प्रारब्धम् ), मृदङ्गवाद्यं ( मुरजवाद्यवादनं लक्षणया एषोऽर्थः ) येन सः । तादृशः सन् दिवस = दिनम्, अनैषीत् = नीतवान् । कदाचित् = जातुचित्, मृगयाव्यापारेण = आखेटकर्मणा, अविरलविमुक्तश राऽऽसारशून्यीकृतकाननः = अविरलं ( निरन्तरं ) यथा तथा विमुक्ताः ( प्रक्षिप्ताः ) ये शराssसारा: ( बाणमहावृष्टयः, लक्षणया एषोऽर्थः ) तैः शून्यीकृतम् ( आखेटपशु
विजयप्राप्ति के लिए अतिशय अभिलाष करनेसे और बहुत ही सत्त्व ( सत्वगुण वा बल ) वाले होनेसे भी स्त्रीसमूहको तृणके समान तुच्छ समझनेवाले, यौवन और सुन्दर होनेपर भी तथा सन्तानकी इच्छा रखनेवाले मन्त्रियोंसे अपेक्षित होनेपर भी सौन्दर्य और विलाससे रतिके विलासका भी उपहास करनेवाली सौन्दर्यमयी, विनयवाली विशाल कुलमें उत्पन्न मनोहर अन्तःपुरकी स्त्रियोंके रहनेपर भी राजा शूद्रकको कामक्रीडाके प्रति अप्रीतिसी थी । वे (शूद्रक ) किसी समय संगीतके प्रसङ्गसे निरन्तर रत्नखचित कङ्कणोंको हिलाते हुए, घर्घरिका- ( वाद्यविशेष )को बजानेसे कम्पन होकर मणिखचित कर्णाऽलङ्कारोंको 'झनझन' शब्दवाले करते हुए, स्वयम् पखावज बजाते हुए, किसी समय शिकार खेलनेके प्रसङ्गसे लगातार बाणोंकी वृष्टि करनेसे वनको हिंस्र जन्तुओंसे शून्य

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172