Book Title: Kadambari
Author(s): Banbhatt Mahakavi, Sheshraj Sharma
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
कादम्बरी
निष्पीडन-निष्ठयूत-धाराजलबिन्दु-दन्तुरेण कृपाणेनाकृष्यमाणा सुभटोरःकपाट-विघटितकवच-सहस्रान्धकार-मध्यवत्तिनी करि-करट-गलित-मदजलासार-दुर्दिनास्वभिसारिकेव समरनिशासु समीपमसकृदाजगाम राजलक्ष्मीः ।
___ यस्य च हृदयस्थितानपि पतीन् दिधक्षुरिव प्रतापानलो त्रियोगिनीनामपि रिपुसुन्दरीणामन्तर्जनितदाहो दिवा नशं जज्वाल ।
यस्मिश्च राजनि जितजगति परिपालयति महीं चित्रकर्मसु वर्णसङ्कराः, रतेषु मुक्ताफलेन = लग्नानि ( सम्बद्धानि ) स्थलानि (पीवगणि) मुक्ताफलानि ( मौक्तिकानि ) यस्य तेन, तादृशेन । दृढमुष्टिनिष्पोडनात = दृढमुष्टिना = ( कठोरबद्धपाणिना ) निष्पीडनात् (निर्ग्रहणात् ) मुष्टिशब्दस्य पुंलिङ्गेऽपि सत्त्वात् स्त्रीलिङ्गमात्रसत्त्वकल्पनया 'सामान्ये नपुंसकम्" इत्यस्याऽवलम्बन व्यर्थम् । निष्ठयूतधाराजलबिन्दूक्षन्तुरेण = निष्ठ्यूता: (निर्गता: ) धाग ( निशिताऽग्रभागा: ) एव जलबिन्दवः ( सलिलपृषता:) तैः दन्तुरेण (उन्ननानतेन ), तथाविधन कृपाणेन = खड्गेन, आकृष्यमाणा इव = समन्ताद्गृह्यमाणा इव, सुभटोर:कपाटविघटितकवचसहस्राऽन्धकारमध्यवर्तिनी = सुभटानां (वीरयोद्धृणाम् ) यानि उरांसि ( वक्षःस्थलानि) एव कपाटानि (अरराणि), "कपाटमरर तुल्ये' इत्यमरः, तेभ्यो विघटितां ( वियोजितम् ) यत् कवचसहस्रं ( वारबाणवृन्दम् ) तदेव अन्धकारं ( तिमिरम् ), नैल्यसाम्यादिति भावः । तस्य मध्यवर्तिनी ( अन्तःस्थिता ), तादृशी राजलक्ष्मोः= वैरिराजश्रीः, करिकरटगलितमदजलाऽऽसारदुर्दिनामु = करिणां ( हस्तिनाम् ) करटाः ( कपोलाः), "करटानि" इति लिखन्तः टीकाकारा भ्रान्ताः । तेभ्यो गलितं ( प्रस्रतम् ) यत् मदजलं (दानवारि ) तस्य आसार: (धारासम्पातः ), तेन दुर्दिनं ( मेघजं तमः, लाक्षणिकोऽयमर्थः ) यासु तासु । तादृशीषु समरनिशासु =समराः (युद्धानि ) निशा ( रात्रयः) इव तासु । अभिसारिका इव = दत्तसङ्केता नायिका इव । यस्य = राज्ञः शूद्रकस्य । समीपं = निकटम्, असकृत् = सह वारंवारम् । आजगाम = आगता । अभिसारिकालक्षणं यथा
"अभिसारयते कान्तं या मन्मथवशंवदा।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ।। ( सा० द०३-७६ )। च= किञ्च, यस्य = राज्ञः, प्रतापाऽनलः = प्रतापः ( कोशदण्डजं तेजः ) स एव अनल: ( अग्निः )। अत्र रूपकमलङ्कारः । हृदि =हृदये, स्थितान् अपि = विद्यमानान् अपि पतीन् । दिधक्षुः इव = दग्धुमिच्छु: इव, वियोगिनीनाम् अपि = विरहिणीनाम् अपि, रिपुसुन्दरीणां = वैरिप्रमदानाम्, अन्तर्जनितदाहः = अन्तः ( अन्तःकरणे ) जनितः ( उत्पादितः ) दाहः ( सन्तापः ) येन सः, तादृशः सन् । दिवानिशम् = अहोरात्रं, जज्वाल = प्रदीप्तो बभूव ।।
यस्मिश्चेति । जितजगति = स्वायत्तीकृतलोके, यस्मिन्, राजनि = भूपे शूद्र के, महीं = पृथिवीं, परिपालयति = परिरक्षति सति, "यस्य च भावेन भावलक्षणम्' इति सप्तमी। चित्रकर्मसु = आलेख्यक्रियासु, वर्णसङ्कराः = वर्णानां ( शुक्लनीलादिवर्णानाम् ) सङ्करा = ( मिश्रणानि ), "प्रजानां न गजमुक्ताओंसे युक्ता मजबूत मुट्ठीसे पकड़नेसे तीक्ष्ण नोक-स्वरूप जलबिन्दुओंसे ऊँचनीच खड्गसे खींची गई. सी वीर योद्धाओंके वक्षःस्थलरूप कपाटोंसे विदीर्ण हजारों कवचोंके अन्धकारके बीचमें रहनेवाली राजलक्ष्मी हाथियोंके कपोलोंसे बहते हुए मदजलोंसे दुर्दिनके समान युद्धरूप रात्रियों में अभिसारिकाकी तरह उनके पास वारंवार आती थीं। जिन (शद्रक )का प्रतापरूप अग्नि शत्रुओंकी वियोगिनी सुन्दरियोंके हृदयमें स्थित पतियोंको भी जलानेमें इच्छुक-सा होकर अन्तःकरणमें दाह उत्पन्न कर दिन रात जलता रहता था। जगत्को जीतनेवाले और पृथिवीका पालन करनेवाले जिन (शूद्रक )के राज्यमें चित्रोंमें वर्णसङ्कर = अर्थात् शुक्लनील आदि अनेक वर्णों का
१. सकृदिति पाठान्तरम् ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172