________________
जीवविचारादि
प्रकरणचतुष्टयम्
देवा हि भवनपति १ व्यन्तर २ ज्योतिष्क ३ वैमानिक ४ भेदाच्चतुर्धा । तत्र भवनाधिपतयो दशधा - असुर १ नाग २ सुवर्ण ३ विद्युत् ४ अग्नि ५ द्वीप ६ उदधि ७ दिग् ८ वायु ९ स्तनिता: १० कुमारान्ता ज्ञेयाः । तथा वानमन्तरा व्यन्तरा अष्टविधा अष्टप्रकारा भवन्ति । ते चामी -पिशाचाः १ भूताः २ यक्षाः ३ राक्षसाः ४ किंनराः ५ किम्पुरुषाः ६ महोरगाः ७ गान्धर्वा ८ इत्यष्टौ । पुनरन्येऽपि अणपन्नीप्रभृतयो व्यन्तरभेदा ज्ञेयाः । तथा ज्योतिष्काः पञ्चविधाः - चन्द्र १ सूर्य २ ग्रह ३ नक्षत्र ४ तारा ५ रूपा: । ते पुनर्द्विधा मनुष्यक्षेत्रे चराः १ तद्बहिः स्थिराः २ इति । तथा वैमानिका देवा द्विविधाः कल्पोपपन्नाः १ कल्पातीताश्च २ । तत्र सौधर्म १ ईशान २ सनत्कुमार ३ माहेन्द्र ४ ब्रह्मलोक ५ लान्तक ६ शुक्र ७ सहस्त्रार ८ आनत ९ प्राणत १० आरण ११ अच्युत १२ द्वादशकल्पवासिनो देवाः कल्पोपपन्ना उच्यन्ते । इन्द्रसामानिकादिव्यवस्थावन्त इत्यर्थः । तथा सुदर्शन १ सुप्रबुद्ध २ मनोरम ३ सर्वतोभद्र ४ विशाल ५ सुमनः ६ सौमनस ७ प्रियंकर ८ नंदिकर ९ नाम नवग्रैवेयकविमानवासिनः, विजय १ वैजयन्त २ जयन्त ३ अपराजित ४ सर्वार्थसिद्ध ५ नाम पञ्चानुत्तरविमानवासिनश्च देवाः कल्पातीता उच्यन्ते । एते सर्वेऽपि अहमिन्द्रत्वात् प्रागुक्तव्यवस्थाशून्या इत्यर्थः ॥२४॥
॥ इत्युक्ताः संसारिजीवाः ॥
जीवविचार
॥१८॥