________________
नवतत्त्व
60606060660660606
पृथिव्यादयो व्यवहारराशिगताः छद्मस्थैदृश्यमानाः इति भेदद्वयं २ पुनः संज्ञिनो येषां मनो वर्तते ३ इयरत्ति-इतरे अपरे येषां । २ पञ्चेन्द्रियाणां मनो नास्ति ते के ? ये श्रीप्रज्ञापनासूत्रे उच्चारादिस्थानेषूत्पद्यमानाः संमूच्छिमाः पञ्चेन्द्रियाः मनुष्याः इतरे
संमूच्छिमतिर्यञ्चश्च प्रोक्ताः सन्ति ते ४ एवं भेदचतुष्टयं जातमेते सबितिचऊ इति-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसहिता कार्याः, 1 B/जाताः सप्तैते अपर्याप्ताश्च पर्याप्तित्रयं विना पर्याप्तिरहिताः ५-६-७ । पर्याप्ताश्च स्वस्वपर्याप्तिसहिताः द्विगुणिताश्चतुर्दशजीवभेदा | भवन्ति ॥४॥ अथ प्रकारान्तरेण जीवलक्षणं प्रक्षेपगाथयाह -
नाणं च दंसणं चेव चरित्तं च तवो तहा ।।
विरिअं उवओगो य एअं जीवस्स लक्खणं ॥५॥ | एवं जीवस्य लक्षणं भवति । एवं किं? तत्राह-ज्ञानं १ दर्शनं २ च पुनः चारित्रं ३ च पुनः तपः ४ तथा वीर्यं ५ च पुनरुपयोगः ६ एतानि षडपि समुदितानि न तु पृथक् पृथक् यत्र भवन्ति स जीवः । एतत्षट्करहितोऽजीव इत्यर्थः। ..
अत्राह शिष्यः-ननु पञ्चेन्द्रियमनुष्यादौ केवलिपर्यन्तैतानि षडपि दृश्यन्ते परं ये सूक्ष्मैकेन्द्रिया वर्तन्ते तेषु कथं तेषां ५ सम्भव: ? उच्यते-सूक्ष्मेष्वेकेन्द्रियेषु ज्ञानमक्षरस्यानन्ततमभागरूपं श्रीप्रज्ञापनादौ प्रोक्तं वर्तत एवान्यथा तद्विना जीवस्याजीवत्वं ।
60606/06/06d6d6d6d6d6ia
प्रकरणचतुष्टयम्