Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादिप्रकरणचतुष्टयम्
| रत्नमयानि फलानि । प्राच्ये शाले भवनं, तत्र मणिपीठिकायामनादृतदेवस्थानं, शेषेषु प्रासादाः, मध्ये सिद्धायतनं, सर्वाणि विजयार्द्धप्रमाणानि, तत्परिवेष्टनेऽष्टोत्तरं शतं जंबूनां, परिवारजंबूसंख्या पद्महूदवत्, एतदधिपतिरनादृतो देवः, ततः पंचाशतं | योजनान्यतिगम्य प्रथमवनखंडे चतसृषु दिक्षु भवनानि, विदिक्षु चतसृणां पुष्करिणीनां मध्ये प्रासादाः, भवनप्रासादमध्येऽष्टौ कूटानि ऋषभकूटप्रमाणानि जांबूनदानि तेषु सिद्धायतनानि शालिवनपूर्वोत्तरादिप्रासादेषु सिंहासनानि ।
मंदराद्दक्षिणे देवकुरुः, निषधोत्तरौ चित्रविचित्रौ यमकवत्, हृदास्तु निषधादयः, तदपरार्द्धे गरुडावासः शाल्मलितरुः जंब्वा सदृशवर्णकः।
प्रागपरयोर्द्वात्रिंशद्विजयाः । तथाहि - प्राग्विदेहः शीतया अपरविदेहस्तु शीतोदया द्विधाकृतः, पुनरेकैको विभागश्चतुर्भिर्वक्षस्कारैः तिसृभिस्तिसृभिश्चांतर्नदीभिरंतरा निपत्याष्टधा कृतः, ततोऽष्टभिश्चत्वारो गुणिता जाता यथोक्तसंख्या विजया:, तथा दाक्षिणात्या गंगासिंधुभ्यां नदीभ्यां, औदीच्यास्तु रक्तारक्तोदाभ्यां विभज्य त्रिधा कृताः । पुनः प्रतिविजयं वैताढ्येन निपत्य षट् खंडानि कृतानि । उक्तं च " विजयं पडिवेयड्डो, गंगासिंधुसमादुदुन्नि नई । तेहिं कया छखंडा, विदेह बत्तीस विजयाणं" ॥१॥ | तत्रैकस्य विजयस्यायामः: षोडशयोजनसहस्राणि द्विचत्वारिंशान्यष्टौ शतानि कलाद्वयाधिकानि, तया विस्तारो द्वाविंशतिशतानि
जंबूद्वीप संग्रहणी
॥ १४८ ॥

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184