Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादि
प्रकरण
चतुष्टयम्
चत्तारि जोयणसए, उव्विद्धो निसढनीलवंतो य ।
निसढो तवणिज्जमओ वेरुलिओ नीलवंतगिरि ॥२८॥
चत्तारित्ति-निषधः चत्वारि योजनशतानि उद्विद्ध उच्चः, न केवलमयं, नीलवांश्च तावदेवोच्चः । चः समुच्चये । तथा निषधस्तपनीयमयो जात्यस्वर्णनिर्माणो रक्तवर्ण इत्यर्थः । माल्य (नील) वान् गिरिस्तु वैडूर्यमयो नीलवर्ण इति ॥२८॥ संप्रति स्वाभिधानप्रकाशनपुरस्सरं सूत्रकारोऽर्थकरणोपसंहारमाह
खंडाई गाहाए, दसहिं दारेहिं जंबूदीवस्स । संघयणी सम्मत्ता, रइया हरिभद्दसूरिहिं ॥ २९॥
खंडाइत्ति-जंबूद्वीपस्याद्यद्वीपक्षेत्ररूपस्य संग्रहणिः समाप्ता इष्टार्थकथनेन पूर्णा । कैः ? इत्याह-दशभिः दशसंख्यावच्छिनैः द्वारैरुक्तस्वरूपैः, किविशिष्टैः ? 'खंडाईत्ति' खंडादीनामुद्देशका गाथा खंडादिगाथा, तया तथोक्तया, 'दीर्घस्वौ मिथो वृत्तौ' इति दीर्घत्वं 'ई' 'खंडा जोयणवासा' इत्यनया सूत्रादिकथितया गाथया उपलक्षितैरिति । कैः कृतेयं ? इत्याह- श्री हरिभद्रसूरिभि: रचिता सूत्रतया निबद्धेति भद्रम् ॥२९॥
जंबूद्वीप संग्रहणी
॥१६८॥

Page Navigation
1 ... 179 180 181 182 183 184