Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 179
________________ जंबूद्वीप संग्रहणी 6006060060606006060606 चतुर्दश गंगाद्या हृदसंभवाः तथा कुंडप्रभवा गंगासिंधुप्रमाणाः प्रतिविजयं द्वे द्वे इति कृत्वा द्वात्रिंशति विजयेषु चतुःषष्टिः, ग्राहवत्याद्या द्वादश तु परिवारहीना अंतर्नद्य एवमेता नवतिर्महानद्यो भवंति जंबुद्वीपे । परं पूर्वोक्तात् षट्पंचाशत्सहस्राधिक चतुर्दशलक्षलक्षणात् परिवारादेताः समधिका विज्ञेया न पुनस्तन्मध्ये गणनीयाः, यतो 'गंगासिंधुरत्ता रत्तवई' इति गाथया चतुर्दशसहस्रसंख्यः परिवारो मूलनदीव्यतिरिक्त उक्त इत्यादि । आशांबरमतानुसारिणोऽप्यमेवाहुः, तथा च तद्ग्रंथः 'जंबूद्दीवनराहिव, संखा सव्वनइ चउदहं य लक्खा । उप्पन्नं च सहस्सा, नवइ नईओ कहंति जिणा' ॥१॥ ॥२५॥ संप्रति महानदीनां प्रवहमुखयोविस्तारमाह छज्जोयणे सकोसे, गंगासिंधूण वित्थरो मूले । दसगुणिओ पज्जंते, इय दुदु गुणणेण सेसाणं ॥२६॥ छज्जोयणेत्ति-गंगासिंध्वोः सादृश्याद्रक्तारक्तवत्योरपि मूले प्रवहे हुदान्निःसारे इति यावत्, सक्रोशानि सगव्यूतानि षट् योजनानि विस्तरः प्रपंचः, पर्यंते समुद्रादिप्रवेशे दशगुणितो दशगुणः सार्द्धद्वाषष्टियोजनरूपो विस्तारो भवति । तथाभ्यंतराणां रोहितांशादीनां स्वरूपमाह-'इय' इत्यादि । इत्यनया दिशा शेषाणां द्वाभ्यां द्वाभ्यां गुणनं तेन द्विद्विगुणनेन विस्तारः 60-6060606d6d6d6d6dna जीवविचारादिप्रकरणचतुष्टयम् ॥१६६॥

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184