Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादि
प्रकरणचतुष्टयम्
berber
| त्रयोदशोत्तराण्यर्द्धगव्यूतानि निषधनीलवतोर्नितंबे प्रतिविजयमेकैकमृषभकूटं, शीताशीतोदयोर्गंगासिंधुसंगमे क्रमेण मागधप्रभासौ तीर्थे, वरदामतीर्थे तु तयोर्बहुमध्यदेशभागे इति । इह भद्रशालमुखवनयोर्मध्ये चत्वारो वक्षस्कारास्तदंतरे तिस्रो नद्यः, | तासामंतरालेऽष्टौ विजयाः सर्वेऽपि चतुर्भिर्गुणिता जातान्यष्टौ वनानि, षोडश वक्षस्काराः, द्वादशांतर्नद्यः, द्वात्रिंशद्विजयाः । | प्रतिविजयं च द्वे द्वे महानद्यौ, निषधसविधवर्त्तिकुंडाद्विनिर्गते गंगासिंधुनाम्न्यौ, केवलमौदीच्येषु षोडशसु विजयेषु माल्य (नील) वदुपकंठस्थितकुंडात् निःसृते नामतो रक्तारक्तवत्यौ सरितौ विद्येते । तत्र वक्षस्काराणां नामानि यथा - चिंत्र - पद्मनलिने - एकशैलाः, त्रिकूर्ट - वैश्रमण-सुदर्शन-अंजनाः, अंकर्वत्-पद्मवेत्-आशीर्विष-सुखावहः, चंद्र-सूर्य-नॉंग - देवगिरँय: इति । प्रतिवक्षस्कारं चत्वारि चत्वारि कूटानि सिद्धार्यतन - स्वेनाम- पूर्वर्विजय- अपरर्विजयाख्यानि । तथांतर्नद्यः कुंडनिर्गमाः कुंडमध्यद्वीपाः स्वनामदेवीवसतयः शीताशीतोदानुगामिन्यः प्रत्येकं पंचविंशत्यधिकशतयोजनविस्तारा दशगव्यूतावगाहाः, ताश्च द्वादश नामतो यथा - ग्रार्हवती - ह्रदवंती - वेगवंती, तप्तजल-मत्तजेला - उन्मत्तजैलाः, क्षीरोद सिंहंस्त्रोतों ऽतर्वाहिन्यः, ऊर्मिर्मालिनी-गंभीरंमालिनी-फेनमालिन्य इति । विजया यथा कर्च्छ-सुकच्छे-महाकैच्छ- कच्छ्वत्-आवेर्त्त-मंगलार्वर्त्त पुष्कर- पुष्करवंतः, वर्च्छ-सुर्वेच्छ- महावच्छे-वच्छवत्-रम्ये- रम्यंक- रमणीयं- मंगलवंर्तः, पद्मं - सुपद्मं - महपद्म- पद्मवँत्
जंबूद्वीप संग्रहणी
॥१४९॥

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184