Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 170
________________ जीवविचारादि प्रकरण चतुष्टयम् | संज्ञा । इयं गाथा पुराणपुस्तकेषु न दृश्यते परमुपयोगिनीति कृत्वा व्याकृतेति । गतं पंचमं पर्वतद्वारं ॥ १७॥ अधुना षष्टं | तीर्थसंख्याद्वारमाह - मागहवरदामपभासतित्थ विजएसु एरवयभरहे । चउतीसा तीहिं गुणिया, दुरुत्तरसयं तु तित्थाणं ॥१८॥ मागहत्ति-मागधश्च वरदाम च प्रभासश्च मागधवरदामप्रभासाः त एव तीर्थानि मागधवरदामप्रभासतीर्थानि प्राकृतशैल्या सूत्रे विभक्तिलोपः, तथा तीर्थशब्दः प्रत्येकं संबंधनीय:, तेन मागधतीर्थं वरदामतीर्थं प्रभासतीर्थं चेति, क्व चैतानि संति ? | इत्याह-विजया महाविदेहमध्यवर्तिनः खंडविशेषाः, ते च सर्वसंख्यया द्वात्रिंशत् तेषु, तथा ऐरवतं च भरतं चेति समाहारद्वंद्वः, तस्मिन्नैरवतभरते, श्रोतारमनुलक्ष्य चरणे प्रथमे च क्षेत्रे संतीति शेषः । उत्तरार्द्धेन सर्वसंख्यानयनाय करणमाह- 'चउतीसे' त्यादि:, तीर्थानां सर्वाग्रे द्वाभ्यामुत्तरमधिकं शतं दश दशकलक्षणं द्वयुत्तरशतं, तुः पादपूरणे भवतीत्यध्याह्रियते । कथमित्याह - | चतुर्भिरधिका त्रिंशत्, त्रिभिर्गुणिता गुणकारविषयीकृता सतीति गाथार्थः ||१८|| अथ सप्तमं श्रेणिद्वारमाचिख्यासुराह जंबूद्वीप संग्रहणी ॥१५७॥

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184