Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 176
________________ शीतायामपि भवंतीति । ततो राशिद्वयस्याप्येकीकरणे चतुःषष्टिसहस्राधिकानि दशलक्षाणि १०६४००० सरितो भवंति ॥ इत्थं १ शच व्याख्यायमाने कुरुमध्यगाश्चतुरशीतिसहस्राणि सरितो न गृहीताः, तासां स्थाने ग्राहवत्यादयः षडंतर्नद्यः प्रत्येकं | चतुर्दशनदीसहस्रसमन्विताश्चतुर्दशषटकानि चतुरशीतिरिति गणनाक्रमेण चतुरशीतिनदीसहस्रसंख्यां पूरयित्वा यथोक्ता संख्या ३ जंबूद्वीप समाहिता । परमयमपि प्रकारो न संभवति, यतोऽतर्नद्यो गंगादिभ्यः सकाशाद् द्विगुणविस्ताराः प्रतीयंते, 'पणवीससयं च संग्रहणी सलिलाओ' इति वचनात्, ततो द्विगुणोऽष्टाविंशतिनदीसहस्रलक्षणः प्रत्येकमासां परिवारो न्याय्यः । आह चोमास्वाति वाचकः-नद्यो विजयच्छेदिन्यो रोहितावत्कुंडद्वीपा स्वनामदेवीवासाः अष्टाविंशतिनदीसहस्रानुगाः प्रत्येकं सर्वत्र समाः । पंचविंशत्यधिकं योजनशतम् विस्तृताः अर्द्धतृतीययोजनावगाहाः ग्राहहुदपंकवत्य इत्यादि" । अतः षण्णामप्येतासामष्टषष्टि सहस्राधिकं लक्षमेकं सरितः परिवारः, तथा पंचलक्षाणि सद्वात्रिंशत्सहस्राणि पुनः सकुरूणां विजयानामतर्नदीरहितानां । जीवविचारादि-15 प्रकरण- भवंति एवं राशिद्वयस्य मीलने पूर्णानि सप्तलक्षाणि सरितः एतावत्य एवापरविदेहे देवकुरुसमन्विते, ततः समस्तमहाविदेहे चतुष्टयम् चतुर्दशलक्षाणि १४००००० सलिलाः । पुनस्त्रीणि लक्षाणि द्विनवतिसहस्राधिकानि भरतादीनां शेषाणां, एवं सर्वांके ॥१६३॥ सप्तदशलक्षाणि द्विनवतिहस्राधिकानि १७९२००० नद्यो भवंतीति । उक्तं च सूत्रे-'चउदसलक्खा छपन्नसहसजंबुदीवंमि । 60062606d6d6d6d6d6d6

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184