Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 174
________________ जीवविचारादि प्रकरणचतुष्टयम् wegovergoo कुरुमज्झे चउरासी, सहस्साइं तह य विजयसोलससु । बत्तीसाणनईणं, चउदस सहस्साइं पत्तेअं ॥२३॥ कुरुत्ति - कुरव इत्युत्तरकुरवः पदैकदेशेऽपि पदसमुदायोपचाराद्यथा भामा सत्यभामेति । तेषां मध्ये विचाले चतुरशीतिसहस्राणि नद्यः । तथेतिशब्दो विशेषद्योतकः चः पादपूरणे । विजयेषु प्राग्विदेहमध्यवर्त्तिषु षोडशसु, द्विरष्टसंख्यावच्छिन्नेषु द्वात्रिंशतो गंगासिंधुप्रायाणां प्रत्येकं चतुर्दशसहस्राणि भवंति । तथाहि - एकस्मात् कच्छदेशविजयात् प्रत्येकं चतुर्दशभिश्चतुर्दशभि: सहस्त्रैः सह द्वे नद्यौ रक्तारक्तवतीनाम्न्यौ शीतायां प्रविशतः । प्राक् सामस्त्येन तत्राष्टाविंशतिसहस्राणि नद्यो भवंति । एष एव क्रमः सर्वेषु विजयेषु । यथा पूर्वविदेहेषु विजयाः षोडश (१६), प्रतिविजयं चाष्टाविंशतिसहस्राणि नद्यः । अपरविदेहमाश्रित्योक्तं च- 'विजयावि य इक्केका, अट्ठावीसाइ नइसहस्सेहिं । आउरमाणसलिला, अवरेणुदहिं समणुपत्ता ' ॥१॥ इति । ततोऽष्टाविंशतेः सहस्राणां षोडशभिर्गुणकारे जाताश्चतस्रो लक्षा अष्टाचत्वारिंशत्सहस्राधिकाः | ४४८००० नद्यः । पूर्वोक्ताश्चतुरशीतिसहस्रा उत्तरकुरुमध्यगा नद्यः एतासां मध्ये प्रक्षिप्यंते, जातानि द्वात्रिंशत्सहस्राधिकानि पंचलक्षाणि ५३२००० नदीनां । तथाऽनेनैव पर्यायेण देवकुरुष्वपरमहाविदेहानां संबंधिषु विजयेष्वपि एतावत्य एव जंबूद्वीप संग्रहणी ॥१६१॥

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184