Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादिप्रकरण
चतुष्टयम्
विज्जाहर अभिओगिय, सेढीओ दुन्नि दुन्नि वेयड्डे । इय चउगुण चउतीसा, छत्तीससयं तु सेढीणं ॥१९॥
विज्जहरेत्ति-विद्याधराः खेचराः अभियोगः पारवश्यं तत्र नियुक्ता आभियौगिकाः ते चेह संप्रदायात् सौधर्मेशानयो|र्देवलोकयोः प्रेष्यप्रायाः सुरा ज्ञेयाः तेषां श्रेणयः प्रागुक्तस्वरूपाः वैताढ्ये विजयाढ्यपर्वते एकैकस्मिन्निति गम्यते, द्वे द्वे प्रत्येकं ज्ञातव्ये इति शेषः । तथाहि - एकैकस्मिन् वैताढ्ये एकस्यामेकस्यां दिशि एकैका विद्याधरश्रेणिः, एकैका | चाभियौगिकदेवनिवासश्रेणिः समुदिता, पार्श्वद्वयेऽपि चतस्रश्चतस्रो भवंति । अपरार्द्धेन संख्यानयनाय करणमाह-'इयेत्यादि’ इत्यनेन प्रकारेण चतुस्त्रिंशत् चतुर्गुणा चतुर्भिर्गुणिता किं भवति ? इत्याह- श्रेणीनां षट्त्रिंशदधिकं शतं भवति । गतं श्रेणिद्वारं ॥१९॥ अधुना गाथार्द्धेनाष्टमं विजयद्वारमाह
चक्की जेयव्वाइं, विजयाइं इत्थ हुंति चउतीसं ।
चक्कीत्ति-इत्थेत्यत्र जंबूद्वीपेऽस्मिन् प्रकरणे वा विजयाश्चतुस्त्रिंशद् भवंति । किंविशिष्टाः ? इत्याह- चक्कीत्यादि, चक्रं | सहस्रयक्षाधिष्ठितः प्रहरणविशेषः, तदस्त्यस्येति चक्री सार्वभौमः यः षट्खंडां भुवं भुनक्तीत्यर्थः तेन जेतव्या वशमानेतव्या इति।
जंबूद्वीप संग्रहणी
॥ १५८ ॥

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184