SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जीवविचारादिप्रकरणचतुष्टयम् | रत्नमयानि फलानि । प्राच्ये शाले भवनं, तत्र मणिपीठिकायामनादृतदेवस्थानं, शेषेषु प्रासादाः, मध्ये सिद्धायतनं, सर्वाणि विजयार्द्धप्रमाणानि, तत्परिवेष्टनेऽष्टोत्तरं शतं जंबूनां, परिवारजंबूसंख्या पद्महूदवत्, एतदधिपतिरनादृतो देवः, ततः पंचाशतं | योजनान्यतिगम्य प्रथमवनखंडे चतसृषु दिक्षु भवनानि, विदिक्षु चतसृणां पुष्करिणीनां मध्ये प्रासादाः, भवनप्रासादमध्येऽष्टौ कूटानि ऋषभकूटप्रमाणानि जांबूनदानि तेषु सिद्धायतनानि शालिवनपूर्वोत्तरादिप्रासादेषु सिंहासनानि । मंदराद्दक्षिणे देवकुरुः, निषधोत्तरौ चित्रविचित्रौ यमकवत्, हृदास्तु निषधादयः, तदपरार्द्धे गरुडावासः शाल्मलितरुः जंब्वा सदृशवर्णकः। प्रागपरयोर्द्वात्रिंशद्विजयाः । तथाहि - प्राग्विदेहः शीतया अपरविदेहस्तु शीतोदया द्विधाकृतः, पुनरेकैको विभागश्चतुर्भिर्वक्षस्कारैः तिसृभिस्तिसृभिश्चांतर्नदीभिरंतरा निपत्याष्टधा कृतः, ततोऽष्टभिश्चत्वारो गुणिता जाता यथोक्तसंख्या विजया:, तथा दाक्षिणात्या गंगासिंधुभ्यां नदीभ्यां, औदीच्यास्तु रक्तारक्तोदाभ्यां विभज्य त्रिधा कृताः । पुनः प्रतिविजयं वैताढ्येन निपत्य षट् खंडानि कृतानि । उक्तं च " विजयं पडिवेयड्डो, गंगासिंधुसमादुदुन्नि नई । तेहिं कया छखंडा, विदेह बत्तीस विजयाणं" ॥१॥ | तत्रैकस्य विजयस्यायामः: षोडशयोजनसहस्राणि द्विचत्वारिंशान्यष्टौ शतानि कलाद्वयाधिकानि, तया विस्तारो द्वाविंशतिशतानि जंबूद्वीप संग्रहणी ॥ १४८ ॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy