SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ मंगणी अथ शीतायाः प्राच्यामपाच्यां च नीलवतस्तु याम्यायामष्टौ शतानि चतुस्त्रिंशानि यादृशैः सप्तभिर्योजनं भवति तादृशांश्चतुरो भागांश्चातिक्रम्य द्वौ यमकपर्वतो, तयोर्मूलविस्तार उच्चत्वं च सहस्रं योजनानि, उपरि तदर्द्धविस्तारः, तयोरुपरि कनकमयौ प्रासादौ, हिमवद्वत् तावति च । दक्षिणदिशि नीलाद्या हुदाः । उक्तं च-"जावइयंमि पमाणंमि हुँति जमगा नीलवंताओ। तावइयमंतरं खलु, जंबूद्वीप | जमगदहाणं दहाणं च" ॥१॥ ते च उदग्दक्षिणयोर्दीर्घाः पूर्वापरयोस्तु विस्तीर्णाः पद्महदप्रमाणाः स्वनामदेवनिवासाः, तेषां प्रागपरयोर्दिशोरेकैकस्य दश दश कांचनगिरयः स्वनामदेववसतयः, तेषां उच्चत्वं मूलविस्तारश्च शतं शतं योजनानि, उपरि तु । पंचाशद्योजनानि, परस्परं शिखरव्यवधानं शतं शतं योजनानां, मूले तु नास्त्यंतरं । तथा शीतायाः प्राच्यां पंचशतयोजनायामविस्तारं अभ्यंतरे द्वादशयोजनपृथुलं क्रमेण हीयमानं यावदंतेऽर्द्धयोजनमानं जीवविचारादि-जंबूनदमयं जंबूपीठमस्ति, तच्च द्विगव्यूतोच्चया पंचधनुःशतविस्तीर्णया पद्मवरवेदिकया परिक्षिप्तं, तस्य चतसृष्वपि दिक्षु प्रकरण- | द्विक्रोशोच्छ्रयाणि तदर्द्धविस्ताराणि ध्वजतोरणवंदनमालाविभासितानि चत्वारि द्वाराणि । तथा च बहुमध्ये चतुर्योजनोच्छ्रया चतुष्टयम् अष्टयोजनायामा मणिपीठिका, तस्या उपरिष्टाद् जंबूवृक्षः, स चाष्टयोजनविष्कंभोच्छ्रयः वज्रमयमूलः, तस्यावगाहः स्कंधश्च । द्वे योजने, षड्योजनदैर्ध्याः अष्टयोजनदैर्ध्याः शाखाः ताश्च सौवर्णाः, स्कंध: पत्राणि च वैडूर्यमयानि, प्रवालमयाः पल्लवाः, 6060606060060m Kumeroresgargaregangargaregory ॥१४७॥ Midnidos
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy