Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादि
प्रकरण
चतुष्टयम्
विशेषाः सर्वचैत्येषु ज्ञेयाः । ततः परं भरतार्द्धकूटं तत्र भरतदेवस्य सिद्धायतनप्रमाणः प्रासादः, खंडप्रपाततमिस्रा| गुहयोर्नृत्तमालकृतमालौ देवौ, अन्येषु पंचसु स्वनामानो देवाः प्रासादेषु विलसंति । तथा हिमवन्नितंबे दक्षिणदिशि मूले द्वादश योजनानि उपरि चत्वारि विस्तीर्णोऽष्टयोजनोच्छ्रय ऋषभदेवनिवासो रत्नमय ऋषभकूटनामा पर्वतोऽस्ति । स च 'भूमिकूट' इति इह प्रकरणे प्रसिद्धः, चक्री षट्खंडां वसुंधरां विजित्यास्मिन् स्वनाम लिखति ।
भरतमुत्तरेण पूर्वापरयोर्लवणसमुद्रं प्राप्तो भरताद् द्विगुणविस्तारो योजनशतोच्छ्रयो हेममयो हिमवान् वर्षधरः, तदुपरि बहुमध्यदेशमागे योजनसहस्रदैर्ध्यः तदर्द्धविस्तरो दशयोजनावगाढो जलपूर्णः पद्महूदः, तस्य रजतमयं कूलं, | वज्रमयपाषाणाश्चतुर्दिशि मणिसोपानाः, तन्मध्ये योजनायामविस्तारं अर्द्धयोजनपिंडं दशयोजनोच्चनालं गव्यूतद्वयं जलादुपरि स्थितं पद्मं विद्यते, वज्रमयं तस्य मूलं, अरिष्टमयः कंदः, वैडूर्यमयो नालः बाह्यपत्राणि च मध्यानि तु जांबूनदमयानि, कनकमयीकर्णिका, स्वर्णमयानि केसराणि विविघमणिमयं पुष्करं सा च कर्णिका द्विगव्यूतप्रमाणा पृथुला त्वेकं गव्यूतं, तस्या उपरि पीठिकादेवच्छंदकादियुतं श्रीदेवीभवनं, एतादृशेनार्द्धप्रमाणेन कमलानामष्टशतेन वृतं, तत्र श्रीदेव्या आभरणानि, तद्वाह्येषु वायव्यौदीच्यैशानेषु दिग्भागेषु चत्वारि कमलसहस्राणि ४०००, तेषु तावंत एव सामानिका देवा देव्यो वा । पूर्वस्यां
6
जंबूद्वीप संग्रहणी
॥१३६॥

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184