Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 148
________________ जीवविचारादिप्रकरणचतुष्टयम् | समस्तमनोरथातिथिपदार्थसमासादितपरमानंदसंदोहा, गगनगमनसामर्थ्यसमन्विता विद्याधराः सुखमासते । पुनर्दशयोजनान्युपरिष्टादारुह्य विद्याधर श्रेणिसमाऽविषमोन्नतभूमिरिंद्राभियोगिकदेवकृतनिवासा श्रेणिद्वयी समस्ति । ततोऽपि पंचसु योजनेषूपरि दशयोजनानि विस्तीर्णं वेदिकावनखंडमनोहरं, अनल्पकल्पवासिदेवक्रीडायोग्यं स्थानमास्ते । तत्र | सपादषट्योजनोच्छ्रयाणि तावन्मूलविस्ताराणि उपरिष्टात् सार्द्धद्वादशक्रोशायामानि नव कूटानि । तथाहि, सिद्धयतन| दक्षिणार्द्ध भरत - खंडप्रपात - माणिभद्र - विजयढ्या-पूर्णर्भंद्र - तमिस्त्रागुह - उत्तरार्द्ध भरत - वै श्रमणनामानि तेषु | माणिभद्रविजयाढ्यपूर्णभद्रकूटानि हिरण्यमयानि, अपराणि षट् रत्नमयानि, प्रथमे पूर्वदिग्वर्त्तिनि (कूटे) क्रोशदैर्ध्य क्रोशार्द्धविस्तीर्णं चत्वारिंशदर्गलचतुर्दशधनुः शतोच्छ्रायं सिद्धायतनं, तस्मिन् पंचधनुःशतोच्चानि तदर्द्धविस्ताराणि त्रीणि द्वाराणि तिसृषु दिक्षु । तद्यथा- प्राच्यां प्रथमं द्वारं, द्वितीयं दक्षिणस्यां तृतीयमुदीच्यां प्रतीच्यां तु न किंचिदिति । किंच - सर्वेषु सिद्धायतनेषु | प्रासादेषु च जंबूद्वीपमध्येऽयमेव द्वारदिग्विभागः, तस्य हि बहुमध्यदेशे क्रोशचतुर्थांशायामविष्कंभा तदर्द्धपृथुला मणिपीठिका, | तस्या उपरि पंचधनुः शतायामविस्तारः तदधिकोच्छ्रायो देवच्छंदकः, तत्राष्टोत्तरं शतं प्रतिमाः, ता हि जघन्यतः सप्तहस्तप्रमाणा | उत्कर्षतः पंचधनुः शतोच्चा ऋषभवर्द्धमानचंद्राननवारिषेणाख्याः संति । पूर्णकलशनागदंतशालभंजिकाजालकटकादिरचना जंबूद्वीप संग्रहणी ॥१३५॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184