Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादि
प्रकरण
चतुष्टयम्
उत्तरेण शीतोदा निर्गता, तस्याः प्रवाहो जिह्विका च पंचाशद्योजनानि, हरिन्नदीकुंडाद् द्विगुणकुंडा, निषेध - देवकुरु-सूर्यसुलैंस - विद्युत्प्रभहूदान् विभिद्य चतुरशीत्या नदीसहस्रैरन्विता, भद्रशालवनमध्यप्रवृत्ता, योजनद्वयांतरे मंदरमलगंती, | अपरदिगभिमुखं विद्युत्प्रभविदारिकाऽपरविदेहं द्विधा विधाय एकैकस्माद्विजयादष्टाविंशतिनदीसहस्रानुगता, जयंतद्वारादधो जगतीं विदार्य पंचशतयोजनायामा, दशयोजनोद्वेधा, पश्चिमजलधि (जलधिमधि) गता । तस्मिन् पर्वते नव कूटानि, तद्यथासिद्धार्यतन - निषेध - हरिवैर्ष-प्राग्वैिदेह-हरित् धृति-शीतोंदा - ऽपरविदेह-रुचंकाभिधानानि, हिमवत्कूटसदृशानि ।
निषधादुत्तरो वैडूर्यमयस्तिगिछिप्रतिच्छंदः केशरिहूदमध्यो नीलवान् वर्षधरः, तत्र नव कूटानि तथाहि - सिद्धयतन - नीले प्राग्वैिदेह-शीत-कति नारी- अपरविदेह रम्यक् - उपदर्शनकूटाख्यानि निषधकूटमानानि । ततः केसरिहूदाद् दक्षिणदिशि सैककलानि सप्तयोजनसहस्राणि चत्वारि शतान्येकविंशत्यधिकानि पर्वताधित्यकामुल्लंघ्य, स्वनामदैवतकुंडं मध्येकृत्य, | नीलोत्तरकुरु-चंद्र- ऐरर्वंत- माल्यैवत् हृदान् विभिद्य, भद्रशालसत्कचतुरशीतिनदी सहस्रपरीता, माल्यवद्विदेहविजयद्वारच्छेदिनी, पूर्वोदधि गता शीता, शेषं शीतोदावत् ।
निषधनीलवदंतरा महाविदेहो लक्षयोजनानि तस्य मध्यदैर्घ्यं विष्कंभस्तु निषधाद् द्विगुणः ।
जंबूद्वीप संग्रहणी
॥१४२॥

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184