SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् विशेषाः सर्वचैत्येषु ज्ञेयाः । ततः परं भरतार्द्धकूटं तत्र भरतदेवस्य सिद्धायतनप्रमाणः प्रासादः, खंडप्रपाततमिस्रा| गुहयोर्नृत्तमालकृतमालौ देवौ, अन्येषु पंचसु स्वनामानो देवाः प्रासादेषु विलसंति । तथा हिमवन्नितंबे दक्षिणदिशि मूले द्वादश योजनानि उपरि चत्वारि विस्तीर्णोऽष्टयोजनोच्छ्रय ऋषभदेवनिवासो रत्नमय ऋषभकूटनामा पर्वतोऽस्ति । स च 'भूमिकूट' इति इह प्रकरणे प्रसिद्धः, चक्री षट्खंडां वसुंधरां विजित्यास्मिन् स्वनाम लिखति । भरतमुत्तरेण पूर्वापरयोर्लवणसमुद्रं प्राप्तो भरताद् द्विगुणविस्तारो योजनशतोच्छ्रयो हेममयो हिमवान् वर्षधरः, तदुपरि बहुमध्यदेशमागे योजनसहस्रदैर्ध्यः तदर्द्धविस्तरो दशयोजनावगाढो जलपूर्णः पद्महूदः, तस्य रजतमयं कूलं, | वज्रमयपाषाणाश्चतुर्दिशि मणिसोपानाः, तन्मध्ये योजनायामविस्तारं अर्द्धयोजनपिंडं दशयोजनोच्चनालं गव्यूतद्वयं जलादुपरि स्थितं पद्मं विद्यते, वज्रमयं तस्य मूलं, अरिष्टमयः कंदः, वैडूर्यमयो नालः बाह्यपत्राणि च मध्यानि तु जांबूनदमयानि, कनकमयीकर्णिका, स्वर्णमयानि केसराणि विविघमणिमयं पुष्करं सा च कर्णिका द्विगव्यूतप्रमाणा पृथुला त्वेकं गव्यूतं, तस्या उपरि पीठिकादेवच्छंदकादियुतं श्रीदेवीभवनं, एतादृशेनार्द्धप्रमाणेन कमलानामष्टशतेन वृतं, तत्र श्रीदेव्या आभरणानि, तद्वाह्येषु वायव्यौदीच्यैशानेषु दिग्भागेषु चत्वारि कमलसहस्राणि ४०००, तेषु तावंत एव सामानिका देवा देव्यो वा । पूर्वस्यां 6 जंबूद्वीप संग्रहणी ॥१३६॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy