________________
जीवविचारादि
प्रकरण
चतुष्टयम्
दिशि चतुर्षु पद्मेषु चतसृणां महामंत्रिसदृशीनां स्थानानि, आग्नेय्यामष्टसु पद्मसहस्रेषु श्रीदेव्या अभ्यंतरायां पर्षदि देवानामष्टौ सहस्रा: ८०००, दक्षिणस्यां दिशि दशसु पद्मसहस्रेषु १०००० तावंत एव मध्यपर्षदि मित्रस्थानीया देवाः, नैऋत्यां द्वादशसु | पद्मसहस्रेषु १२००० तावंत एव किंकरस्थानीयाः सुराः बाह्यपर्षदि । पश्चिमायां सप्तसु पद्मेषु सप्तानामनीकाधिपतीनामाश्रयाः, तथा चतसृषु दिक्षु पूर्वादिकासु षोडशसु पद्मसहस्रेषु १६००० आत्मरक्षकदेवानां स्थानानि, एतद्वेष्टनकत्रयं मध्यं । अपरेऽपि बाह्याः त्रयः परिरया:, तेष्वभ्यंतरे परिक्षेपे द्वात्रिंशल्लक्षाणि ३२०००००, मध्यमे चत्वारिंशच्छतसहस्राणि ४००००००, अष्टाचत्वारिंशल्लक्षाणि ४८००००० पद्मानां बाह्ये भवन्ति । एवं सर्वाग्रेण एका कोटी, विंशतिलक्षाणि, पञ्चाशत्सहस्राणि, | विंशत्यधिकमेकं शतं च १२०५०१२० पद्महूदे पद्मानि । महापद्मादिष्वप्येषैव कमलानां संख्येति । तस्मात्तु हृदात् पूर्वद्वारतोरणात् पंचयोजनशतानि, पूर्वस्यां पर्वतोपरि गत्वा गंगावर्त्तकूटादावर्त्य दक्षिणाभिमुखं पंचयोजनशतानि त्रयोविंशानि साधिकाऽघ्युष्टकलायुतानि अतिक्रम्य द्विगव्यूतदीर्घान्मकरमुखान्निःसृत्य गंगाप्रपातकुंडे निपतति । तच्च कुंडं | षष्टियोजनायामविस्तारमुपरिष्टात्, अधस्तु दशयोजनन्यूनं दशयोजनावगाढं वज्रमयतलं त्रिद्वारतोरणसोपानादियुतं तन्मध्ये गंगाद्वीपो ऽष्टयोजनायामविष्कंभो गव्यूतद्वयं जलादुपरि गतः, तन्मध्ये भवनं, तत्र पीठिकायां गंगादेव्याः शय्येति । तदा
जंबूद्वीप
संग्रहणी
॥१३७॥