Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादि
प्रकरणचतुष्टयम्
| जातानि द्वात्रिंशद्धनुषां लक्षाणि ३२०००००, अष्टभिर्धनुः सहस्रैर्योजनं भवतीति कृत्वा तदानयनायाष्टभिरेव सहस्त्रैर्भागो हियते, | लब्धाश्चत्वारो योजनशताः ४००, एतेऽपि मूलराशिमध्ये प्रक्षेप्तव्याः, ततः सार्द्धत्रयोदशांगुलेषु पंचविंशत्यैव सहस्त्रैर्गुणितेषु लब्धानि त्रीणि लक्षाणि सप्तत्रिंशत्सहस्राणि पंचशताधिकानि ३३७५००, एषां धनुरानयनार्थं षण्णवत्या भागो हियते, जातानि त्रीणि धनुःसहस्राणि पंचदशोत्तरपंचशताधिकानि ३५१५, षष्टिरंगुलानि चोपरिष्टात् । पुनर्गव्यूतानयनाय धनुःसहस्रद्वयेन भागे हृते लब्धं गव्यूतमेकं, षट्पंचाशल्लक्षाणि चतुर्नवतिः सहस्राणि, सार्द्धशताधिकानि समचतुरस्राणां योजनप्रमाणखंडानां, तथैकं गव्यूतं पंचदशोत्तराणि पंचधनुः शतानि षष्टिरंगुलानि च ७९०५६९४१५०, गव्यू. १ धनुः १५१५ अंगुल ६०, इति सर्वजंबूद्वीपगणितपदं प्रपञ्चितं तत्प्रपञ्चितेन समर्थितं द्वितीयं योजनद्वारम् ॥९ - १०॥ संप्रति क्रमायातं तृतीयं क्षेत्रद्वारं गाथायाः प्रथमपादेनाह -
भरहाइ सत्तवासा,
“भरहाइ त्ति,” वर्षाणि क्षेत्राणि मनुष्यनिवासस्थानानीत्यर्थः, तानि कियत्संख्यानि ? किंनामानि च भवंति इत्याह, सत्त त्ति सप्तसंख्यानि नामतस्तु भरतादीनि, आदिशब्दाद्धेमवतहरिवर्षमहाविदेहरम्यकैरण्यवतैरवतानां ग्रहः, तथा वर्षशब्दो
जंबूद्वीप
संग्रहणी
॥१३१॥

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184