SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरणचतुष्टयम् | जातानि द्वात्रिंशद्धनुषां लक्षाणि ३२०००००, अष्टभिर्धनुः सहस्रैर्योजनं भवतीति कृत्वा तदानयनायाष्टभिरेव सहस्त्रैर्भागो हियते, | लब्धाश्चत्वारो योजनशताः ४००, एतेऽपि मूलराशिमध्ये प्रक्षेप्तव्याः, ततः सार्द्धत्रयोदशांगुलेषु पंचविंशत्यैव सहस्त्रैर्गुणितेषु लब्धानि त्रीणि लक्षाणि सप्तत्रिंशत्सहस्राणि पंचशताधिकानि ३३७५००, एषां धनुरानयनार्थं षण्णवत्या भागो हियते, जातानि त्रीणि धनुःसहस्राणि पंचदशोत्तरपंचशताधिकानि ३५१५, षष्टिरंगुलानि चोपरिष्टात् । पुनर्गव्यूतानयनाय धनुःसहस्रद्वयेन भागे हृते लब्धं गव्यूतमेकं, षट्पंचाशल्लक्षाणि चतुर्नवतिः सहस्राणि, सार्द्धशताधिकानि समचतुरस्राणां योजनप्रमाणखंडानां, तथैकं गव्यूतं पंचदशोत्तराणि पंचधनुः शतानि षष्टिरंगुलानि च ७९०५६९४१५०, गव्यू. १ धनुः १५१५ अंगुल ६०, इति सर्वजंबूद्वीपगणितपदं प्रपञ्चितं तत्प्रपञ्चितेन समर्थितं द्वितीयं योजनद्वारम् ॥९ - १०॥ संप्रति क्रमायातं तृतीयं क्षेत्रद्वारं गाथायाः प्रथमपादेनाह - भरहाइ सत्तवासा, “भरहाइ त्ति,” वर्षाणि क्षेत्राणि मनुष्यनिवासस्थानानीत्यर्थः, तानि कियत्संख्यानि ? किंनामानि च भवंति इत्याह, सत्त त्ति सप्तसंख्यानि नामतस्तु भरतादीनि, आदिशब्दाद्धेमवतहरिवर्षमहाविदेहरम्यकैरण्यवतैरवतानां ग्रहः, तथा वर्षशब्दो जंबूद्वीप संग्रहणी ॥१३१॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy