________________
जीवविचारादि
प्रकरणचतुष्टयम्
नपुंसकलिंगः पुंस्त्वे प्रयुक्तोऽपि प्राकृतत्वात् न दोषाय, "लिंगं व्यभिचार्यपि' इति वचनात्, अमूनि च सर्वक्षेत्राणि | स्वाधिष्ठातृदैवतसमाननामानि । तथाहि - भरताधिपतिर्यो यो देव उत्पद्यते तं तं तत्सामानिकाद्या देवा 'भरत' इत्याह्वयंति, | ततस्तन्नाम्ना तदधिष्ठितं क्षेत्रमपि भरतमिति कथ्यते । तथाचागम:- " से केणठ्ठणं भंते ! भरहे वासे इति ? गोयमा, भरहे देवे महड्डीए, महज्जुए जाव पलिओवमट्ठिइए परिवसइ, से एएणट्टेणं गोयमा, एवं वुच्चइ भरहे वासे" इति एवं | हैमवतादिष्वपि भावनीयमिति संक्षेपार्थः । विस्तरार्थस्त्वयं सर्वद्वीपसमुद्राणां मध्ये परिपूर्णचंद्रमंडलसंस्थानः सर्वतो | लक्षयोजनमानो जंबूद्वीपोऽस्ति । यदागमः-से णं जंबूद्दीवे एगा जगईए, सव्वओ समंता सपरिखित्ते साणं जगई अट्ठजोअणाई उड्डुं उच्चत्तेणं, मूले बारसजोयणाई विक्खंभेणं, मज्झे अट्ठजोअणाइं विक्खंभेणं, उवरिं चत्तारि जोअणाइं विक्खंभेणं, मूले विच्छिन्ना, मज्झे संखित्ता, उवरिं तणुआ, गोपुच्छसंठाणसंठिया, सव्ववइरामया, अच्छा सण्हा जाव पडिरुव त्ति" । | तस्याश्चोपरिष्टादर्द्धयोजनोच्च: पंचधनुः शतविस्तीर्णो गवाक्षकटकः, तथा तस्या एव बहुदेशमध्यभागे गवाक्षकटकप्रमाणोच्छ्रायदैर्ध्या | परिक्षेपेण जगतीसमाना, नानारत्ननिर्माणा, विविधपद्ममंडिता, पद्मवरवेदिकास्ति । यदुक्तं राजप्रश्नीयोपांगे - "से केणठ्ठेणं भंते! एवं वुच्चइ, पउमवरवेइया ? गोयमा ! पउमवरवेइयाणं तत्थ तत्थ देसे तर्हि तर्हि वेइयासु, वेइयाबाहासु य,
erver
जंबूद्वीप संग्रहणी
॥१३२॥