Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जंबूद्वीप
शततो जातानि त्रीणि लक्षाणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके ३१६२२७, शेषमुपरीदमुद्धरति चत्वारि लक्षाणि,
चतुरशीतिसहस्राणि, चत्वारि शतानि, एकसप्तत्यर्गलानि ४८४४७१, अमूनि च योजनानि गव्यूतं योजनस्य चतुर्थांशः, शततश्चतुर्भिर्गुणितानि जाता एकोनविंशतिर्लक्षाः, सप्तत्रिंशत्सहस्रा, अष्टौ शतानि, चतुरशीति युतानि, गव्यूतानां १९३७८८४, ततश्छेदराशिना षड्लक्षादिना नवरमंत्यसप्तकमपि द्विगुणं कृत्वा भागे हृते लब्धं गव्यूतत्रितयं शेषमिदमुपरिष्टात्तिष्ठति,
संग्रहणी चत्वारिंशत्सहस्राणि, पंचशतानि, द्वाविंशत्यधिकानि ४०५२२, एकेन गव्यूतेन धनुःसहस्रद्वयं भवति, तावता च गव्यूतरूप उद्धरितराशिर्गुण्यते, तद्यथा - अग्रे शून्यत्रयं दत्वा मूलराशिर्द्विगुणो विधीयते, जाता अष्टौ कोटयो दशलक्षाश्चतुश्चत्वारिंशत् | ॐ सहस्राः ८१०४४०००, पूर्वोक्तच्छेदराशिना भागो हियते लब्धमष्टाविंशत्यधिकं धनुःशतं १२८ शेषमिदमुपरिधनूरूपं तिष्ठति।
एकोननवतिः सहस्त्राण्यष्टाशीत्यधिकान्यष्टौ शतानि ८९८८८ ततोऽगुलानयनाय षण्णवत्या एतस्य गुणकारे दत्ते जातानि 2. जीवविचारादि
षण्णशीतिलक्षाण्येकोनत्रिंशत्सहस्त्राणि द्वे शतेऽष्टचत्वारिंशदधिके ८६२९२४८ प्राक्तनरीत्या छेदराशिमधो विहाय भागे हृते । चतुष्टयम्
लब्धानि त्रयोदशांगुलानि १३, उपरीदमवशिष्यते, चत्वारि लक्षाणि, सप्त सहस्राणि, षट्चत्वारिंशदधिकानि, त्रीणि शतानि || श४०७३६, अर्धांगुलानयनाय एष राशिर्द्विगुणीक्रियते, जातान्यष्टौ लक्षाणि, चतुर्दश सहस्राणि, षट्शतानि, द्विनवत्यर्गलानि |
6monHid60606006doiidnilionition
प्रकरण
॥१२८॥
didaid

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184