Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
न्यायमाश्रित्य प्रथमं गाथात्रयेण खंडान्याह - नउयसयं खंडाणं, भरहपमाणेण भाइए लक्खे ।
जंबूद्वीप अहवा नउयसयगुणं, भरहपमाणं हवइ लक्खं ॥३॥
संग्रहणी नउयसयेत्ति-समस्तमपि जंबूद्वीपं नवत्युत्तरं शतं खंडानां भणिष्यमाणप्रकारेण भवतीति शेषः । क्षेत्रपर्वतविस्तारमाश्रित्य | खंडानि ज्ञातव्यानि न पुनर्दीर्घत्वेन, यत:-धनुष्पृष्ठाकारत्वादाद्यं भरतक्षेत्रं लघीयस्ततः पराणि क्रमेण दीर्घतराणि यावन्महाविदेहो B मध्यविभागे योजनलक्षदैर्घ्यः । कियत्प्रमाणानि खंडानि भवंति ? इत्याह-"भरहपमाणेण" इत्यादि भरतं प्रथम वर्षं तस्य ।
प्रमाणं मानं षड्विंशत्यधिकपंचयोजनशतानि सयोजनैकोनविंशषड्भागानि तेन भाजिते भागे हृते सति यल्लभ्यते तत्समानि जीवविचारादि-शखंडानि भवंति । तद्यथा-जंबूद्वीपविष्कंभो योजनलक्षं, एक एककस्तदने पंच शून्यानि ध्रियंते १०००००, एष भाज्यराशिः, चतुष्टयम्
भरतमानं तु प्राक् कथितं ५२६ योजन, कला ६, अयं च भागहारः, ततो लब्धं नवत्युत्तरं शतं १९०, एतानि सर्वजंबूद्वीपखंडानि ॥१२३॥ पुनर्विधानांतरेण खंडानयनायोपायमाह-'अहवे' त्यादि, - अथवा प्रकारांतरेण भरतप्रमाणमुक्तस्वरूपं नवत्यधिकेन शतेन 2. | गणितं जंबद्वीपविष्कंभमानं लक्षयोजनरूपं भवति । तथाहि-भरतमानं ५२६ यो. कला ६, एष मूलराशिः, नवत्युत्तरं शतं
260606060606006
weggyuggagyeyaneswersneygyangya
प्रकरण

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184