Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 135
________________ स्वयमेव सूत्रकारो भणिष्यति ॥१॥ इदानीमभिधेयरूपदशद्वारपुरस्सरं कविः प्रकरणाभिधानमाह - खंडों जोर्यण वासा, पचय कूडॉ य तित्थ सेढीओ । विजय दहें सर्लिलाओ, पिंडेसि होइ संघयणी ॥२॥ जंबूद्वीप संग्रहणी तत्र खंडानि विस्तारेण भरतप्रमाणानि, योजनानि घनीकृतरूपाणि, वर्षाणि भरतक्षेत्रादीनि, पर्वता वैताढ्यादयः कूटानि २ वैताढ्यादिपर्वतशिरःस्थितानि शृंगरूपाणि सिद्धायतनकूटादीनि, तीर्थानि मागधादीनि, श्रेणयो दीर्घवैताढ्येषु पार्श्वद्वयेऽपि B/ विद्याधरनगराभियोगिकदेवनिवासश्रेणयः, विजयाः कच्छादयः, हृदा: पद्मादयो महाहदाः, सलिला गंगाद्या महानद्यः । इह समास एवं कर्तव्यो योजनानि च वर्षाणि च योजनवर्षाणि प्राकृतत्वालिंगव्यत्ययः, एवमग्रेऽपि, नवरं तीर्थानि च श्रेणयश्च तास्तीर्थश्रेणयः, जीवविचारादि-"स्त्रीपुंनपुंसकानां सहवचने स्यात्परं लिंगमिति वचनात्" स्त्रीत्वमेवमग्रेऽपि विज्ञेयं । "पिंडेसिं होइ-संघयणि त्ति" । एषां दशानां है चतुष्टयम् वर्णनीयपदार्थानां पिंड: समवायः संग्रहणिर्भवति, पिंडशब्दः समूहेऽप्यस्ति, यदाह हैमानेकार्थ:-"पिंडो वृंदे जपापुष्पे गोले बोलेउंगसिहयोरिति" । एतानि खंडादीनि दशापि परमार्थतः क्षेत्रमेव, ततः एवं निरुक्तिः, क्षेत्रं जंबूद्वीपलक्षणं संगृह्यते उपादीयतेऽनयेति क्षेत्रसंग्रहणिः अवयवे समुदायोपचारात् । इमानि दश द्वाराण्यत्र प्रकरणेऽभिधास्यंत इति ॥२॥ अथ यथोद्देशस्तथा निर्देश इति । onlondwonod6d6d6d6d06ondonsidere एएएएएएएएeyok प्रकरण

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184