________________
स्वयमेव सूत्रकारो भणिष्यति ॥१॥ इदानीमभिधेयरूपदशद्वारपुरस्सरं कविः प्रकरणाभिधानमाह -
खंडों जोर्यण वासा, पचय कूडॉ य तित्थ सेढीओ । विजय दहें सर्लिलाओ, पिंडेसि होइ संघयणी ॥२॥
जंबूद्वीप
संग्रहणी तत्र खंडानि विस्तारेण भरतप्रमाणानि, योजनानि घनीकृतरूपाणि, वर्षाणि भरतक्षेत्रादीनि, पर्वता वैताढ्यादयः कूटानि २ वैताढ्यादिपर्वतशिरःस्थितानि शृंगरूपाणि सिद्धायतनकूटादीनि, तीर्थानि मागधादीनि, श्रेणयो दीर्घवैताढ्येषु पार्श्वद्वयेऽपि B/ विद्याधरनगराभियोगिकदेवनिवासश्रेणयः, विजयाः कच्छादयः, हृदा: पद्मादयो महाहदाः, सलिला गंगाद्या महानद्यः । इह समास
एवं कर्तव्यो योजनानि च वर्षाणि च योजनवर्षाणि प्राकृतत्वालिंगव्यत्ययः, एवमग्रेऽपि, नवरं तीर्थानि च श्रेणयश्च तास्तीर्थश्रेणयः, जीवविचारादि-"स्त्रीपुंनपुंसकानां सहवचने स्यात्परं लिंगमिति वचनात्" स्त्रीत्वमेवमग्रेऽपि विज्ञेयं । "पिंडेसिं होइ-संघयणि त्ति" । एषां दशानां है चतुष्टयम्
वर्णनीयपदार्थानां पिंड: समवायः संग्रहणिर्भवति, पिंडशब्दः समूहेऽप्यस्ति, यदाह हैमानेकार्थ:-"पिंडो वृंदे जपापुष्पे गोले बोलेउंगसिहयोरिति" । एतानि खंडादीनि दशापि परमार्थतः क्षेत्रमेव, ततः एवं निरुक्तिः, क्षेत्रं जंबूद्वीपलक्षणं संगृह्यते उपादीयतेऽनयेति क्षेत्रसंग्रहणिः अवयवे समुदायोपचारात् । इमानि दश द्वाराण्यत्र प्रकरणेऽभिधास्यंत इति ॥२॥ अथ यथोद्देशस्तथा निर्देश इति ।
onlondwonod6d6d6d6d06ondonsidere
एएएएएएएएeyok
प्रकरण