SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रत्यपादि । एवं गाथार्द्धन भगवन्नमस्काररूपं मंगलमुक्तं । अपराद्धे तु अभिधेयादीनाह, - "जंबूद्दीवपयत्थि त्ति" - जंबूवृक्षविशेषस्तेन उपलक्षितो द्वीपो जंबूद्वीपः, उत्तरकुरुक्षेत्रे हि नीलवद्वर्षधरमाल्यवद्वक्षस्कारशीतानदीनां बहुमध्यदेशभागे ३ बहुतद्वृक्षलक्षलक्षितो जंबूवृक्षोऽस्ति, तन्नाम्नायं जंबूद्वीपः । उक्तं च भगवत्यंगे-"से केणटेणं भंते ! एवं वुच्चइ, जंबूद्दीवे | जंबूद्वीप BI दीवे, गोयमा ! जंबूद्दीवेणं दीवे मंदरस्स पव्वयस्य उत्तरेणं लवणस्स दाहिणेणं जाव तत्थ बहवे जंबूरुक्खा जंबूवन्ना जाव | संग्रहणी | उवसोहेमाणा चिठ्ठति से तेणठेणं गोयमा ! एवं वुच्चइ जंबूद्दीवे दीवे इति" तत्र पदार्थाः क्षेत्रपर्वतनदीवनादयोऽभिधेयवस्तुरूपाः तान्, किं करिष्यामि ? इत्याह, 'वुच्छं' वक्ष्याम्यभिधास्यामि, इहाऽस्मदर्थक्रियायोगात्सूत्रेऽनुक्तोऽप्यहमित्यात्मनिर्देशो ज्ञातव्यः, जंबूद्वीपपदार्थान् वक्ष्यामि, अनेन त्वभिधेयं निगदितं । न भगवतोऽतिशायिज्ञानमंतरेण चक्षुरगोचरैतावत्क्षेत्र-3 स्वरूपप्ररूपणप्रवीणतास्तीत्यादिपरप्रश्ननिराकरणायाह-'सुत्त त्ति' सूत्रं सिद्धांतो गणधरादिरचितजंबूद्वीपप्रज्ञप्तिक्षेत्रसमासादि जीवविचारादिप्रकरण तस्मात्, न स्वमत्यनुसारेण । किमर्थमेतावान् प्रयासः क्रियते ? इत्याह 'सपरहेउ त्ति' स्व आत्मा परोऽन्यस्तयोर्हेतुर्निमित्तं । चतुष्टयम् | तदर्थमित्यर्थः, एतेन संबंधोऽभिहितः, स च स्वपरभेदाद् द्विधा, पुनरैकैकोऽनंतरपरंपरभेदाद् द्विधा, तत्रानंतरः कर्तुर्भव्यसत्त्वानुग्रहः परस्य श्रोतुस्त्वेतदर्थावगमो जंबूद्वीपविचारज्ञानरूपः, परंपरस्तु द्वयोरपि परमपदावाप्तिरिति । अभिधानं तूत्तरत्र गाथायां 60-620606ou606d6d6d6d6d అలాగసాగసాంగసాగనిగలాగసాగర్ ॥१२
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy