________________
जीवविचारादिप्रकरण
चतुष्टयम्
नमिय जिणं सव्वन्नुं, जगपुज्जं जगगुरुं महावीरं । जंबूद्दीवपयत्थे, वुच्छं सुत्ता सपरहेडं ॥१॥
नमियजिणेत्यादि - महावीरं नत्वा जंबूद्वीपपदार्थान् वक्ष्ये इति संबंध: । तत्र कर्मविदारणादिगुणाद्वीरः । उक्तं च|" विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥१॥ ततो महांश्चासौ वीरश्च | महावीरः चरमतीर्थंकरः तं नत्वा प्रणम्य, किंविशिष्टमित्याह, रागादीनष्टादशांतरंगारीन् जयत्यभिभवति इति जिन: तं तथोक्तं, | इत्यनेनापायापगमातिशयः अपायरूपान्तरारिक्षयात् । तथा सर्वज्ञं सर्वं जीवाजीवगतिस्थित्यादिकं जानाति वेत्तीति सर्वज्ञः तं तथाविधं, इह ज्ञानग्रहणेन दर्शनमपि गृहीतं तेन सर्वदर्शिनमित्यपि प्रत्येतव्यं, तन्नांतरीयकत्वात्, एतेन तु ज्ञानातिशयः | सूचित: । तथा जगत्पूज्यं अत्र जगच्छब्देन भिन्नग्रंथिकभव्यसंज्ञिपर्याप्तपंचेन्द्रियग्रहः ततो जगतः पूज्योऽर्चनीयो जगत्पूज्य: तं तथाप्रकारं, अनेन तु विशेषणेन पूजातिशयः । पुनः कीदृशं ? जगद्गुरुं इह जगच्छब्देन चतुर्दशरज्ज्वात्मकलोकपरिग्रहः, | ततो जगच्चराचरं गृणाति कथयति जगद्गुरुः तं, अनेकद्वीपसागरसुरालयनैरयिकालयादिपूर्णजगद्वक्तारमित्यर्थः, मूककेवलिनो ॥१२०॥ हि सर्वज्ञाः सर्वदर्शिनोऽपि वचनसामर्थ्याभावान्न विश्वस्वरूपं निरूपयितुमलंभूष्णवो भवत्यनेन तद्व्यवच्छेदाद्वचनातिशयः
जंबूद्वीप
संग्रहणी