Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे अज्ञानिभ्यो हीनैव स्यात् । ततस्तस्याः क्षुधाया अभाव : केवलेकेवलज्ञाने बलात् संपद्यते घटते । किमुक्तं भवति केवलज्ञानांशत्वान्मतिज्ञानादीनां केवलज्ञाने क्षुधाया अभावे मतिज्ञानादीना - मपि अंशतः क्षुधाया हीनत्वप्राप्ते र्न चैतदस्ति । केषाञ्चिन्मति - श्रुतज्ञानिनां अज्ञानिभ्योऽधिकतराहारग्रहणदर्शनात् । ततः सिद्धा केवलिनो भुक्तिरिति ॥ ३० ॥ कार्यं तिष्ठेदभिगृह्य, त्रिधोपादानकारणम् । तरौ नीरमिवाङ्गेऽन्न - मचिरस्थायि कारणम् ||३१|| व्याख्या - उपादानकारणं नाम परिणामिकारणं, तत् त्रिधा - अचिरस्थायि - चिरस्थायि - सदास्थायिभेदेन त्रिविधं सत् कार्यं अभिगृह्य अभिव्याप्य तिष्ठेत् । यत्र कार्यं तत्र स्वस्मिन् स्वस्मिन् कार्ये त्रिविधस्योपादानकारणस्यावश्यं भवनात् । तदभावे कार्यस्याप्यभावात् । उपादानकारणस्याद्यं भेदमाह-अङगे- शरीरेऽन्नं अचिरस्थायिकारणं भण्यते । किमिव ? तरौ नीरमिव । अत्र यद्यपि अन्नं जलं च सहकारिकारणं, पुनस्तथापि अत्यन्तविशेषकर्तृत्वेन उपादानरूपत्वादुपादानत्वेनैव विवक्षितम् । यथा परिणामिकारणं जलापगमतः कार्यभूतस्य द्रुमस्यापगमः स्यात्, परिणामिकारणाहारापगमतः कार्यभूतस्य देहस्याप्यपगमः स्यादित्यर्थः । अतो देहभृतः केवलिनो भुक्तिरेवेति भावः ॥३१॥ तथा - ३८ मृत्पिण्डाद्यं घटादौ यत्, तच्चिरस्थायि कारणम् । आत्मादिकं यद् ज्ञानादौ, तत् सवास्थायि कारणम् ॥३२॥ व्याख्या - मृत्पिण्डो घटे कारणं परिणामिकारणं । किंविशिष्टम् ? चिरस्थायि, चिरकालेन पर्यायान्तरभवनात् । आदिशब्दाद्दादि प्रतिमादि गृह्यते । यथा दारु परिणामिकारणं, तत्कार्यं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170