Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वव्यवस्थापनवादस्थलम् साहुणो जेणं आसाइज्जा सुअनाणमित्यादि तत्रैवा ३ ऽध्ययने पत्रे १४ । युष्माकमपि विनयोपधानवनादिविधिमविधाय पञ्चमङ्गलाassोयानानां महापापत्वेनाऽतीतानागतवर्त मानतीर्थंकराशातनाकारित्वेन चाऽद्रष्टव्यत्वमेव स्यादिति । ' यच्चिन्त्यते परस्मिंस्तदायाति स्वस्मिन्नि' तिन्याय एवोपढौकते । एवं च सति 'अन्नाणी वि 'हु गोवो आराहित्ता मओ नमोक्कारं । चपाए सिट्ठिसुओ सुदंसणो विस्सुओ जाओ || १ || इति भक्तपरिज्ञायाम् । इहलोगंमि तिदंडी सादिव्व माउलिंगवणमेव । परलोए चंडपिंगल - इंडियजक्खो अ दिट्ठता || २ || इत्यावश्यके चोक्तं कथं सङ्गच्छते ? | अनुपधानेनाऽपि नमस्कारपाठिनां सुगतिप्रतिपादनात् । किञ्च - श्रीमहानिशीथे स्वल्पेऽपि प्रमादे साधोः कुशीलत्वोक्तेः, तस्य च त (त्व) दभिसन्धिनाऽचारित्रित्वात् सर्वाऽऽगमोक्तं साधोः प्रमत्ताऽप्रमत्तरूपगुणस्थानकद्वयं कथं सङ्गच्छते ? । यदि च कुशीलादीनामेकान्तेनाचारित्रित्वं सम्मतं स्यात्तदा तत्रैव गणाधिपत्ययोग्य गुरुगुणानुक्त्वा 'उड्ढ पुच्छा गोयमा ! तओ परेणं उड्ढं हायमाणे कालसमए तत्थ णं जे केई छक्कायसमारंभविवज्जी से णं धन्ने पुन्ने वंदे पुज्जे नमसणिज्जे' इति पंचमाध्ययने षट्कायसमारंभविवजिनामपि कथं पूज्यत्वमवादि । तथा 'दंसणनाणचरितं तवविणयं जत्थ जत्तियं पासे । जिणपत्रत्तं भत्तीइ पूअए तं तहीं भावं ||१|| इति श्रीपंचकल्पेऽपि । अपि च-अवन्द्यमध्योवतकुशीलस्य निर्ग्रन्थमध्योक्तकुशीलस्य च लक्षणे विचार्यमाणे एकत्वमेव दृश्यते । तथाहिअवन्द्यकुशील : श्री आवश्यके ज्ञानदर्शनचारित्राचारविराधकभेदात्रिविध उक्तः । श्रीमहानिशीथे तु - 'अनेकहा कुसीले दंसणकुसीले चरितकुसीले वीरियकुसीले ' इति । निर्ग्रन्थमध्योक्तकुशीलस्य ज्ञानदर्शनचारित्रतपसां विराधको मनसा क्रोधाद्यासेवकश्च पञ्च १४७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170