Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५२
इत्यादिना लिङगमात्रधारिणां लक्षणानि 'बायालमेसणाओ' इत्यादि ( उप० ) गाथासमुदाये नच पार्श्वस्थादिस्थानानि कुतः पृथक् २ प्रतिपादितानि । ततोऽयमाशयः 'दगपाणं पुप्फफलं' इत्यादिलक्षणभृतो द्रव्यलिङिगनोऽसंयताः एव । 'बायालमेसणाओ न रक्खइ' इत्यादि पार्श्वस्थादिस्थानानि तु पुनः २ सेवमानः पश्चात्तापमुक्तो गुरोः पुरस्तादनालोचयन् शनैः कियता कालेनाऽसंयतो भवति । न चायमर्थः स्वमनीषिकयोच्यते । यदुक्तं श्रीकल्पे तृतीयखण्डे - एसणदोसे सीआइ अणाणुतावी न चेव विअडेइ । णेव य करेइ सोधिन य बिरमइ कालओ भस्से' ॥ १॥ भत्र वृत्ति :- 'एषणादोषेषु 'सीदति' तद्दोषदुष्टं भक्त - पानं गृह्णातीत्यर्थः । पुरः कर्मादिदोषदुष्टाहारग्रहणेऽपि न पश्चात्तापवान्, 'न चैव विकटयति' गुरुणां पुरतः स्वदोषं न प्रकाशयति । गुरुदत्तं प्रायश्चित्तं वा न करोति । नैवाशुद्धाहारग्रहणाद् विरमति, एवं कुर्वन् कियता कालेन चारित्रात् परिभ्रश्येदिति । ततो 'गुणाहिए वंदणयं इत्यावश्यक - वचनप्रामाण्यात् कालोचितयतनया यतमाना यतयो गुणाधिकत्वात् श्राद्धानां वन्द्या एव । ननु न वयं सर्वथा साधूनामभावं बदाम, किन्तुमापावस्थादयो भूवन् मा तद्वन्दनदोषश्चाभूदिति न वन्दामहे । तहि जातं युष्माकमप्याषाढाचार्यशिष्य वदव्यक्तनिनवत्वम् । यथा भयं च पार्श्वस्थादिवन्दनदोषाद् गीयते तथा 'माणोअविणयखिसानीयागोय अबोहिभववुडडी । अनमंते छद्दोसा' इति साध्ववन्दनजनिताबोध्यादिदोषेभ्यः कस्मान्न भीयते ? । ततो मोक्षार्थिना सकल सङघ प्रमाणीकृतं मार्गमबगणय्य साम्प्रतमेमास्म - दादिष्टचरेणाग्राह्यनामधेयेन केनापि पुरुषापशब्देन साधूनामुपरि जातमत्सरेण निजकुमतिपरिकल्पितेषु वचनेषु मास्कंदिहि । यतः'नियगमइ विगप्पिअचितिएण सच्छंदबुद्धिरइएण । कत्तो पारत्तहियं
गुरुतत्त्वव्यवस्थापनबादस्थलम्
For Private And Personal Use Only

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170