Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम्
करणं च । नहि तेषां मिथ्यादृष्टित्वे सम्भवतीति । उपदेशमालायामपि - 'एगागी १ पासत्यो २ सच्छंदो ३ ठाणवासी ४ ओसन्नो ५ । दुगमाइसंजोगा जह बहुआ तह गुरू हुति' ॥ ३८७॥ गाथा । अत्र द्विकादियोगा गुरवो बहुदोषाः पदानां वृद्धया दोषवृद्धेः । 'गच्छगओ अणुओगी गुरुसेवी अनियओ य गुणा ( आ ) उत्तो । संजोएण पयाणं संजम आराहमा भणिआ' || ३८८ || अत्र गच्छगतो, न एकाकी । अनुयोगी, न पापर्वस्थः । गुरुसेवी, न स्वच्छन्दः । अनियतो, न नित्यवासी । ( गुणा ) आयुक्तो, नावसन्नः । अत्र पदानां वृद्धया गुणवृद्धि: । अत्र मच्छगतत्वादिपदचतुष्कयोगे ऽनुयोगित्वाऽऽयुक्तत्वयोरन्यतरस्यायोगे पार्श्वस्थत्वस्यावसन्नत्वस्याभावेऽपि संयमाऽऽराधकत्वं भणता भणितमेव पार्श्वस्थादीनामपि चारित्रित्वम् । तथा 'पासत्यासन्नकुसील संसत्तनीयवासीणं । जो कुणइ ममत्ताइ परिवारनिमित्त च ॥ १॥ तस्स इमं पच्छित्तं । अह पुण साहम्मित्ता संजमहेउं व उज्जमिस्सति वा । कुलगणसंघ गिलाणे तप्पिस्सति एव बुद्धी' | एवं ममत्तकरें परिवालणं अहवस्सवच्छलं । दढआलंबणचित्तो सुज्झति सम्वत्थ साहूतु । इति श्रीजीतकल्पभाष्ये पावस्थादीनां ममत्वादि ममायं परिवारो भविष्यति इत्यादिकारणैरेव निषिद्ध असाधर्मिकत्वादिकारणे तु अनुमतमेव । यच्च श्रीमहानिशीथ सुमतिश्राद्धस्यानन्तसंसारित्वमुक्तं तन्न कुशील संसर्गमात्रजनितं किन्तु नागिलनाम्ना भ्रात्रा प्रतिबोधनेऽपि शुद्धचारित्रसद्भावेऽपि तादृक्कुशीलनिद्वंषसपरिवारस्य सचित्तोदकपरिभोगादिबहुदोषदुष्टस्यैकान्त मिथ्यादृष्टेर भव्यस्य ज्येष्ठसाधोः पार्श्वे दीक्षाग्रहणेन 'जारिसओ तुमं अबुद्धिओ तारियो सोवि तित्थयरो' इति तीर्थंकराशातनाकारित्वेन च वेदितव्यम् । किञ्च यदि पार्श्वस्थादीनां लिङ्गधारित्वमेवेष्टं स्यात् तदाह - ' दगपाणं पुप्फफलं'
१५१
For Private And Personal Use Only

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170