Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम्
www.amara..............१०
संठाणं। गेयं नियचरणाणं अव्वचाणं (ट्ठावणमवि) कणयकुसुमेहि ॥३॥ तिविहं तिविहेणेयं मिच्छत्तं जेहिं वज्जिअं दूर । निच्छयओ ते सड्ढा अन्ने उण नामओ चेव ।।४।। अतः ‘सेसा मिच्छादिट्ठी गिहिलिंग-कुलिंग-दवलिंगेहि' इत्यत्र द्रव्य लिङ्गिनोलन्तरोवतलक्षणा एव ग्राह्याः, नतु शय्यातरपिण्डादि-कियद्दोषदूषितदेशपार्श्वस्थाः । तेषां हि सातिचारचारित्रसद्भावेऽपि मिथ्यादृष्टित्वे प्रोच्यमाने महत्याशातना स्यात् । न चातिचारचारित्रित्वं तेषामसिद्धम् । यदुक्तं प्रवचनसारोद्धार वृत्तौ-'एतेषु पाश्वस्थं सर्वथैवाऽचारित्रिणं केचिन्मन्यन्ते, तत्तु युक्तं न प्रतिभाति । यतो यद्येकान्तेन पार्श्व. स्थोऽचारित्री स्यात्, तदा सर्वतो देशतश्चेति विकल्पद्वयकल्पनमसङ्गतं स्यात्, चारित्राभावस्थोभयत्रापि तुल्यत्वात् । तस्मात् ज्ञायते पावस्थस्य सातिचारचारित्रसत्तापि । यतो निशीथचूर्णावपि-'सत्थो अच्छइ सुत्तपोरिसिं अत्थपोरिसि वा (च) न करेइ दसणाइयारेसु वट्टइ, चारित्ते न वट्टइ, अइआरे वा न वज्जेइ। एवं सत्थो अच्छइ पासत्थो ति । एतावता चास्य न सर्वथा चारित्राऽभावोऽवसीयते इति प्रवचनसारोद्धारवृत्तौ । अत्र च निशीथचूर्णी'चारिते न वट्टइ' इति सर्वपाश्वस्थग्रहणं 'अइआरे न वज्जइ' इति वा देशपावस्थस्य ग्रहणं सम्भाव्यते । पावस्थं च केचिदचारित्रिणं मन्यन्ते इति वचनादवसन्नादीनां सुतरां चारित्रसद्भावो निर्णीयते । सर्वथा चारित्राऽभावे च तेषामागमोक्तं कारणजाते वन्द्यत्वमपि न सङ्गच्छते, तहि क्वापि महत्यपि कारणे परतीथिकानां वन्द्यत्वं सिद्धं तैः प्रतिपादितं । तथौघनिर्युक्तो- 'एस गमो पंचण्हवि नीयाईणं गिलाणपडिअरणे । फासुअकरणनिकायणकहणपडिक्कामणागमणं ॥१॥ इत्यत्र पार्श्वस्थादीनां ग्लानत्वे प्रतिजागरणं संविज्ञविहारं प्रत्यभ्युत्थितत्वे सति साधुना सङघाटक
For Private And Personal Use Only

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170